SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 483 // गाथार्थः॥ दारं // इदानीं कालकालः प्रतिपाद्यते- कालस्य- सत्त्वस्य श्वादेः कालो- मरणं कालकालः, अमुमेवार्थं 0.3 उपोद्घातप्रतिपादयन्नाह नियुक्तिः, नि०- कालेण कओ कालो अम्हं सज्झायदेसकालंमि। तो तेण हओ कालो अकालकालं करेंतेणं // 729 // षष्टद्वारम्, कालेन शुना कृतः कालः कृतं मरणम्, अस्माकं स्वाध्यायदेशकाले ततोऽनेन हतः कालः- भग्नः स्वाध्यायकालः, अकाले उपक्रमादिः। नियुक्तिः अप्रस्तावे कालं मरणं कुर्वतेति गाथार्थः॥द्वारम्॥इदानीं प्रमाणकालः प्रतिपाद्यते-तत्राद्धाकालविशेष एव मनुष्यलोकान्तर्वर्ती 729-731 विशिष्टव्यवहारहेतुः अहर्निशरूपः प्रमाणकाल इति, आह च प्रशस्तानि०-दुविहो पमाणकालो दिवसपमाणंच होइ राई ।चउपोरिसिओ दिवसो राती चउपोरिसीचेव // 730 // प्रशस्त देशकालौ, द्विविधः प्रमाणकालः- दिवसप्रमाणं च भवति रात्रिश्च, चतुष्पौरुषिको दिवसः रात्रिश्चतुष्पौरुष्येव, ततश्च प्रमाणमेव कालः दिवसरात्री प्रमाणकालः, पौरुषीप्रमाणं त्वन्यत्रोत्कृष्टहीनादिभेदभिन्नं प्रतिपादितमेवेति गाथार्थः // द्वारम् // इदानीं वर्णकालस्वरूप- प्रमाणकालौ। प्रदर्शनायाह नि०-पंचण्हं वण्णाणं जो खलु वण्णेण कालओ वण्णो।सो होइ वण्णकालो वण्णिज्जइ जो वजं कालं // 731 // पञ्चानां शुक्लादीनां वर्णानां यः खलु वर्णेन छायया कालको वर्णः, खलुशब्दस्यावधारणार्थत्वात्कृष्ण एव, अनेन गौरादेर्नामकृष्णस्य च व्यवच्छेदः, स भवति वर्णकालः, वर्णश्चासौ कालश्चेति वर्णकालः, वण्णिजइ जो व जं कालं ति वर्णनं. // 483 // वर्णः, प्ररूपणमित्यर्थः, ततश्चवर्ण्यते-प्ररूप्यते यो वा कश्चित्पदार्थो यत्कालंस वर्णकालः, वर्णप्रधानः कालोवर्णकाल इति गाथार्थः // इदानीं भावकालः प्रतिपाद्यते- भावानामौदयिकादीनां स्थिति वकाल इति, आह च
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy