SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 681 // महासार्थ नि०- पालंति जहा गावो गोवा अहिसावयाइदुग्गेहिं / पउरतणपाणिआणि अवणाणि पावंति तह चेव // 915 // नि०-जीवनिकाया गावोजतेपालंति ते महागोवा / मरणाइभया उजिणा निव्वाणवणंच पावंति // 916 // नि०- तो उवगारित्तणओनमोऽरिहा भविअजीवलोगस्स। सव्वस्सेह जिणिंदा लोगुत्तमभावओतह य // 917 // गाथात्रयं निगदसिद्धमेव // द्वारं 3 // एवं तावदुक्तेन प्रकारेण नमोऽर्हत्वहेतवे गुणाः प्रतिपादिताः, साम्प्रतं प्रकारान्तरेण नमोऽर्हत्वहेतुगुणाभिधित्सयाऽऽह नि०- रागद्दोसकसाए, यइंदिआणि अपंचवि / परीसहे उवस्सग्गे, नामयंता नमोऽरिहा // 918 // रागद्वेषकषायान् इन्द्रियाणि च पञ्चापि परीषहानुपसर्गान्नामयन्तो नमोऽर्हा इति। तत्र 'रञ्जरागे'रज्यते अनेन अस्मिन् वा रञ्जनं वा रागः, सच नामादिश्चतुर्विधः, तत्र नामस्थापने सुगमे, द्रव्यरागो द्वेधा- आगमतो नोआगमतश्च, आगमतो रागपदार्थज्ञस्तत्रानुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदस्त्रिविधः, व्यतिरिक्तोऽपि कर्मद्रव्यरागो नोकर्मद्रव्यरागश्च, कर्मद्रव्यरागश्चतुर्विधः- रागवेदनीयपुद्गला योग्याः१ बध्यमानका 2 बद्धाः 3 उदीरणावलिकाप्राप्ताश्च 4, बन्धपरिणामाभिमुखा / योग्याः, बन्धपरिणामप्राप्ता बध्यमानकाः, निर्वृत्तबन्धपरिणामाः सत्कर्मतया स्थिता जीवेनाऽऽत्मसात्कृता बद्धाः, उदीरणाकरणेनाऽऽकृष्योदीरणावलिकामानीताश्चरमा इति, नोकर्मद्रव्यरागस्तु कर्मरागैकदेशस्तदन्यो वा, तदन्यो द्विविधः-प्रायोगिको वैश्रसिकश्च, प्रायोगिको कुसुम्भरागादिः, वैश्रसिकः सन्ध्याभ्ररागादिः, भावरागोऽप्यागमेतरभेदाद् द्विधैव, आगमतो रागपदार्थज्ञ उपयुक्तः, नोआगमतो रागवेदनीयकर्मोदयप्रभवः परिणामविशेषः, सच द्वेधा-प्रशस्तोऽप्रशस्तश्च, अप्रशस्तस्त्रिविधः- दृष्टिरागो विषयरागः स्नेहरागश्च, तत्र त्रयाणां त्रिषष्ट्यधिकानांप्रावादुकशतानामात्मीयात्मीयदर्शनानुरागोदृष्टिरागः, वाहत्वादि, दृष्टान्ताः सविशेषाः, रागद्वेषकथायेन्द्रियाणि (सदृष्टान्तानि) कषायनिक्षेपाः (8) (षण्णयमार्गणा च) परीसहोपसर्गाः (लोका दृष्टान्तानि च) अहंच्छब्दनिरुक्तिः , |तन्ननस्कारफलम्। // 1 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy