________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 680 // 0.5 नमस्कारव्याख्या, नियुक्तिः 913-914 महासार्थवाहत्वादि दृष्टान्ताः / सत्तासुओ, दाहिणपुव्वेणं तुंगारो, अवरदाहिणेणं वीआओ, अवरुत्तरेण गज्जभो, एवेते अट्ठ वाया, अन्नेवि दिसासुं अट्ठ चेव, तत्थ उत्तरपुव्वेणं दोन्नि, तंजहा- उत्तरसत्तासुओ पुरथिमसत्तासुओ य इयरीए वि दोन्निवि पुरथिमतुंगारो दाहिणतुंगारो य, दाहिणवीयावो अवरवीयावो य, अवरगज्जभो उत्तरगज्जभोय, एएसोलस वाया।तत्थ जहाजलिहिँमि कालियावायरहिए गज्जहाणुकूलवाए निउणनिजामगहिया निच्छिड्डपोता जहिट्ठियं पट्टणं पावेंति, एवं च नि०-मिच्छत्तकालियावायविरहिए सम्मत्तगजभपवाए। एगसमएण पत्ता सिद्धिवसहिपट्टणं पोया॥९१३ // मिथ्यात्वमेव कालिकावातः तेन विरहिते भवाम्भोधौ तथा सम्यक्त्वगर्जभप्रवाते, कालिकावातो ह्यसाध्यः गर्जभस्त्वनुकूलः, एकसमयेन प्राप्ताः सिद्धिवसतिपत्तनं पोताः जीवबोहित्थाः, तन्निर्यामकोपकारादिति भावना॥ ततश्च यथा सांयात्रिकसार्थः प्रसिद्धं निर्यामकं चिरगतमपि यात्रा सिद्ध्यर्थं पूजयति, एवं ग्रन्थकारोऽपि सिद्धिपत्तनं प्रति प्रस्थितोऽभीष्टयात्रासिद्धये निर्यामकरत्नेभ्यस्तीर्थकृद्ध्यः स्तवचिकीर्षयेदमाह नि०-निजामगरयणाणं अमूढनाणमइकण्णधाराणं / वंदामि विणयपणओ तिविहेण तिदंडविरयाणं // 914 // निर्यामकरत्नेभ्यः अर्हद्भ्यः अमूढज्ञाना यथावस्थितज्ञाना मननं मतिः- संविदेव सैव कर्णधारो येषां ते तथाविधास्तेभ्यो वन्दामि विनयप्रणतस्त्रिविधेन त्रिदण्डविरतेभ्य इति गाथार्थः॥९१४॥ द्वारं 2 // साम्प्रतं तृतीयद्वारव्याचिख्यासयाऽऽह सत्त्वासुकः दक्षिणपूर्वस्यां तुङ्गारः, अपरदक्षिणस्यां बीजापः अपरोत्तरस्यां गर्जभः, एवमेतेऽष्टवाताः, अन्येऽपि दिक्ष्वष्टैव, तत्रोत्तरपूर्वस्यां द्वौ, तद्यथा- उत्तरसत्त्वासुकः पूर्वसत्त्वासुकश्च, इतरस्यामपि द्वावेव- पूर्वतुङ्गारो दक्षिणतुङ्गारश्व, दक्षिणबीजापोऽपरबीजापश्च, अपरगर्जभ उत्तरगर्जभव, एते षोडश वाताः। तत्र यथा जलधौ कालिकावातरहिते गर्जभानुकूलवाते निपुणनिर्यामकसहिता निश्छिद्रपोता यथेप्सितं पत्तनं प्राप्नुवन्ति। * विभावो. विजाओ। // 680 //