SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 674 // व्याख्या नियुक्तिः 903-904 मागांद्या नमस्कार हेतवः / पूर्वोक्तानुसारेण प्रदर्शनीयः, नवधा वे ति प्रागुक्ता पञ्चविधा इयं चतुर्विधा च सङ्कलिता सती नवविधा प्ररूपणा प्रकारान्तरतो द्रष्टव्येति गाथार्थः॥ 902 // प्ररूपणाद्वारं गतम्, इदानीं निःशेषमिति, साम्प्रतं वत्थु तऽरिहंताई पंच भवे तेसिमो हेउ त्ति गाथाशकलोपन्यस्तमवसरायातंच वस्तुद्वारं विस्तरतो व्याख्यायत इति, तत्रानन्तरोक्तं गाथाशकलं व्याख्यातमेव, नवरंतत्र यदुक्तं तेषां वस्तुत्वेऽयं हेतु रिति, स खल्विदानी हेतुरुच्यते, तत्रेयं गाथा नि०- मग्गे 1 अविप्पणासो 2 आयारे 3 विणयया 4 सहायत्तं 5 / पंचविहनमुक्कारं करेमि एएहिँ हेऊहिं॥९०३॥ मार्गः अविप्रणाशः आचारः विनयता सहायत्वं अर्हदादीनां नमस्कारार्हत्वे एते हेतवः, यदाह- पञ्चविधनमस्कारं करोमि एभिर्हेतुभिरिति गाथासमासार्थः / / इयमत्र भावना- अर्हतां नमस्कारार्हत्वे मार्गः- सम्यग्दर्शनादिलक्षणो हेतुः, यस्मादसौ . तैः प्रदर्शितस्तस्माच्च मुक्तिः, ततश्च पारम्पर्येण मुक्तिहेतुत्वात् पूज्यास्त इति / सिद्धानांतुनमस्कारार्हत्वेऽविप्रणाशः,शाश्वतत्वं हेतुः, तथाहि- तदविप्रणाशमवगम्य प्राणिनः संसारवैमुख्येन मोक्षाय घटन्ते। आचार्याणां तु नमस्कारार्हत्वे आचार एव हेतुः, तथाहि- तानाचारवत आचाराख्यापकांश्च प्राप्य प्राणिन आचारपरिज्ञानानुष्ठानाय भवन्ति / उपाध्यायानां तु नमस्कारार्हत्वे विनयो हेतुः, यतस्तान् स्वयं विनीतान् प्राप्य कर्मविनयनसमर्थविनयवन्तो (प्र) भवन्ति देहिन इति / साधूनां तुनमस्कारार्हत्वे सहायत्वं हेतुः, यतस्ते सिद्धिवधूसङ्गमैकनिष्ठानांतदवाप्तिक्रियासाहाय्यमनुतिष्ठन्तीति गाथार्थः॥९०३॥ एवं तावत्समासेनार्हदादीनां नमस्कारार्हत्वद्वारेण मार्गप्रणयनादयो गुणा उक्ताः साम्प्रतं प्रपञ्चेनार्हतां गुणानुपदर्शयन्नाह नि०- अडवीइ देसिअत्तं 1 तहेव निजामया समुइंमि 2 / छक्कायरक्खणट्ठा महगोवा तेण वुच्चंति 3 // 904 // अटव्यां देशकत्वं कृतमर्हद्भिः, तथैव निर्यामकाः समुद्रे, भगवन्त एव षट्कायरक्षणार्थं यतः प्रयत्नं चक्रुः महागोपास्तेनोच्यन्त // 674 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy