________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 673 // योग्यमर्हमित्यनर्थान्तरम्, वस्तुनमस्कारार्हा अर्हदादयः पञ्चैव भवन्ति, तेषां वस्तुत्वेन नमस्कारार्हत्वेऽयं हेतुः- वक्ष्यमाणलक्षण 0.5 इति गाथार्थः॥९०१॥ अधुना चशब्दसूचितां पञ्चविधांप्ररूपणांप्रतिपादयन्नाह नमस्कार व्याख्या, नि०- आरोवणा य भयणा पुच्छा तह दायणा य निजवणा / नमुकारऽनमुक्कारे नोआइजुए व नवहा वा // 902 // / नियुक्ति: 902 किं कस्य केन आरोपणा च भजना पृच्छा तथा दायना दर्शना दापना वा, निर्यापना, तत्र किं जीव एव नमस्कार? आहोस्विन्नमस्कार एव कियच्चिरं जीवः? इत्येवं परस्परावधारणं आरोपणा, तथा जीव एव नमस्कार इत्युत्तरपदावधारणं 1, अजीवाव्यवच्छिद्य जीव एव कतिविधमिति नमस्कारोऽवधार्यते, जीवस्त्वनवधारितः, नमस्कारो वा स्यादनमस्कारो वा, एषा एकपदव्यभिचाराद्भजना 2, किंविशिष्टो षट्पदा, सत्पदाथैजीवो नमस्कारः? किंविशिष्टस्त्वनमस्कार इति पृच्छा 3, अत्र प्रतिव्याकरणं दापना- नमस्कारपरिणत: जीवो नमस्कारोल गतीन्द्रियादिषु नापरिणत इति 4, निर्यापना त्वेष एव नमस्कारपर्यायपरिणतो जीवो नमस्कारः, नमस्कारोऽपि जीवपरिणाम एव नाजीवपरिणाम इति, एतदुक्तं भवति-दापना प्रश्नार्थव्याख्यानं निर्यापना तु तस्यैव निगमनमिति, अथवेयमन्या चतुर्विधा प्ररूपणेति, दापनानिर्यायत आह- नमोक्कारऽनमोक्कारे णोआदिजुए व णवधा वा तत्र प्रकृत्यकारनोकारोभयनिषेधसमाश्रयाच्चातुर्विध्यम्, प्रकृति: पञ्चविधा स्वभावः शुद्धता यथा नमस्कार इति, स एव नञा सम्बन्धादकारयुक्तः अनमस्कारः, स एव नोशब्दोपपदे नोनमस्कारः, उभयनिषेधात्तु नोअनमस्कार इति, तत्र नमस्कारस्तत्परिणतोजीवः, अनमस्कारस्त्वपरिणतो लब्धिशून्यःअन्यो वा, नोआइजुए। वत्ति नोआदियुक्तो वा नमस्कारः अनमस्कारश्च, अनेन भङ्गकद्वयाक्षेपोवेदितव्यः, नोशब्देनाऽऽदिर्युक्तो यस्य नमस्कारस्येतरस्य चेत्यक्षरगमनिका, तत्र नोनमस्कारो विवक्षया नमस्कारदेशः अनमस्कारो वा, देशसर्वनिषेधपरत्वान्नोशब्दस्य, नोअनमस्कारोऽपि अनमस्कारदेशो वा नमस्कारोवा, देशसर्वनिषेधत्वादेव, एषा चतुर्विधा, नैगमादिनयाभ्युपगमस्त्वस्याः नवपदा, आरोपणाभजनापुच्छा पनाभिः प्ररूपणा। // 673 //