________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 669 // बिंबस्स चेगओ समयं। जीवस्साजीवाण य जइणो पडिमाण चेगत्थं // 2 // जीवाणमजीवस्स य जईण बिंबस्स चेगओ समय। जीवाणमजीवाण य जईण पडिमाण चेगत्थं ॥३॥सङ्गहमतं तु नमःसामान्यमानं तत्स्वामिमात्रस्य च वस्तुनो जीवो नम इति च तुल्याधिकरणम्, अभेदपरमार्थत्वात् तस्य, कश्चित्तु शुद्धतरः पूज्यजीवपूजकजीवसम्बन्धाजीवस्यैव नमस्कार इत्येकं भङ्गं प्रतिपद्यते, ऋजुसूत्रमतं तु नमस्कारस्य ज्ञानक्रियाशब्दरूपत्वात् तेषां च कर्तुरनर्थान्तरत्वात् कर्तृस्वामिक एव, शब्दादिमतमपीदमेव, केवलमुपयुक्तकर्तृस्वामिकोऽसौ, तस्य ज्ञानमात्रत्वात् ज्ञानमात्रता चास्योपयोगादेव फलप्राप्तेः, शब्दक्रियाव्यभिचारात्, एकत्वानेकत्वविचारस्तु नैगमादिनयापेक्षया पूर्ववदायोजनीय इति गाथार्थः / / 892 // कस्येति गतम्, केन? इत्यधुना निरूप्यते-केन साधनेन साध्यते नमस्कारः?, तत्रेयं गाथा नि०- नाणावरणिज्जस्स य दंसणमोहस्स तहखओवसमे / (दा०३) जीवमजीवे अट्ठसुभंगेसुउ होइ सव्वत्थ // 893 // ज्ञानावरणीयस्य इति सामान्यशब्देऽपि मतिश्रुतज्ञानावरणीयं गृह्यते, मतिश्रुतज्ञानान्तर्गतत्वात् तस्य, तथा सम्यग्दर्शनसाहचर्याज्ज्ञानस्य दर्शनमोहनीयस्य च क्षयोपशमेन साध्यते, प्राकृतशैल्या तृतीयानिर्देशो द्रष्टव्यः, तस्य चावरणस्य द्विविधानि स्पर्धकानि भवन्ति-सर्वोपघातीनि देशोपघातीनिच, तत्र सर्वेषु सर्वघातिषूद्धातितेषु देशोपघातिनांच प्रतिसमयं विशुद्ध्यपेक्ष भागैरनन्तैः क्षयमुपगच्छद्भिर्विमुच्यमानः क्रमेण प्रथममक्षरं लभते, एकमेकैकवर्णप्राप्त्या समस्तनमस्कारमिति, क्षयोपशमस्वरूपं पूर्ववद् / गतं केनेति द्वारम्, कस्मिन्नित्यधुना, तत्र कस्मिन्निति सप्तम्यधिकरणे, अधिकरणं चाधारः, स च चतुर्भेदः, यतेर्बिम्बस्य चैकतः समकम् / जीवस्याजीवानां च यतेः प्रतिमानां चैकत्र / / 2 / / जीवानामजीवस्य च यतीनां बिम्बस्य चैकतः समकम् / जीवानामजीवानां च यतीनां प्रतिमानां चैकत्र // 3 // नमस्कारव्याख्या, नियुक्तिः 893 किं कस्य केन कियच्चिरं कतिविधमिति षट्पदा, सत्पदाथैर्गतीन्द्रियादिषु नवपदा, आरोपणाभजनापृच्छादापनानिर्यापनाभिः पञ्चविधा प्ररूपणा। // 669 //