SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 668 // सन्नियरपणिदिया सबितिचऊ। पज्जत्तापज्जत्ता भेदेणं चोद्दसग्गामा॥१॥ अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः- सामान्येनाशुद्धनयानां जीवस्तज्ज्ञानलब्धियुक्तो योग्यो वा नमस्कारः,शब्दादिशुद्धनयमतं त्वधिकृत्याह-तप्परिणओजीव इति वर्तते, स हि नमस्कारपरिणामपरिणत एव नमस्कारो नापरिणत इत्यर्थः / एकत्वानेकत्वचिन्तायां तु नैगमस्य सङ्ग्रहव्यवहारान्तर्गतत्वात् सङ्ग्रहादिभिरेव विचारः, तत्र सङ्ग्रहस्य नमस्कारजातिमात्रापेक्षत्वादेको नमस्कारः, व्यवहारस्य व्यवहारपरत्वाद् बहवो नमस्काराः, ऋजुसूत्रादीनां वर्तमानमात्रग्राहित्वाद् बहव एवोपयुक्ताश्चेति समासार्थः, व्यासार्थो विशेषावश्यकादवसेयः, किमितिद्वार गतम् / साम्प्रतं कस्य? इति द्वारम्, इह च प्राक्प्रतिपन्नप्रतिपद्यमानकाङ्गीकरणतोऽभीष्टमर्थ निरूपयन्नाह- पुव्वपडिवन्नओ उ जीवाणं इत्यादि, प्रकृतचिन्तायामिह पूर्वप्रतिपन्न एव यदाऽधिक्रियते तदा व्यवहारनयमतमाश्रित्य जीवानां जीवस्वामिक इत्यर्थः, प्रतिपद्यमानं तु प्रतीत्य जीवस्य जीवानां (वा) इत्यक्षरगमनिका, भावार्थस्तु नयैश्चिन्त्यते- यस्मान्नमस्कार्यनमस्कर्तृद्वयाधीनं नमस्कारकरणम्, तत्र नैगमव्यवहारमतं नमस्कार्यस्य नमस्कारः, न कर्तुः, यद्यपि नमस्कारक्रियानिष्पादकः कर्ता तथाऽपि नासौ तस्य, स्वयमनुपयुज्यमानत्वात्, यतिभिक्षावत्, तथाहि-न दातुर्भिक्षा निष्पादकस्य, अपितु भिक्षोभिक्षेति प्रतीतम्, अत्र चसम्बन्धविशेषापेक्षावशप्रापिता अष्टौ भङ्गा भवन्ति, तद्यथा-जीवस्य 1 अजीवस्य 2 जीवानां 3 अजीवानां 4 जीवस्य चाजीवस्य च 5 जीवस्य चाजीवानां च 6 जीवानामजीवस्य च 7 जीवानामजीवानां च 8, अत्रोदाहरणानिजीवस्स सो जिणस्स व अज्जीवस्स उ जिणिंदपडिमाए। जीवाण जतीणं पिव अज्जीवाणं तु पडिमाणं॥१॥जीवस्साजीवस्स य जइणो - संज्ञीतराः पञ्चेन्द्रियाः सद्वित्रिचतुष्काः। पर्याप्तापर्याप्तभेदेन चतुर्दश ग्रामाः॥१॥ क्षविवक्षावश० (प्र०)। जीवस्य स जिनस्यैव अजीवस्य तु जिनेन्द्रप्रतिमायाः। जीवानां यतीनामपि अजीवानां तु प्रतिमानाम् // 1 // जीवस्याजीवस्य च - 0.5 नमस्कारव्याख्या, नियुक्तिः 892 किं कस्य केन कियच्चिरं कतिविधमिति षट्पदा, सत्पदाथैर्गतीन्द्रियादिषु नवपदा, आरोपणाभजनापृच्छादापनानिर्यापनाभिः पञ्चविधा प्ररूपणा। // 668 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy