SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 667 // प्रधानो द्रव्यसङ्कोचोऽपि तच्छुद्धिनिमित्त इति गाथार्थः।। 890 // द्वारम् ॥प्ररूपणाद्वारप्रतिपादनायाऽऽह नि०- दुविहा परूवणा छप्पया य१नवहा य 2 छप्पया इणमो। किं 1 कस्स 2 केण व 3 कहिं 4 किच्चिरं 5 कइविहो व६ भवे // 891 // द्विविधा द्विप्रकारा प्रकृष्टा- प्रधाना प्रगता वा रूपणा- वर्णना प्ररूपणेति, द्वैविध्यं दर्शयति- षट्पदा च नवधा च - नवप्रकारा नवपदा चेत्यर्थः, चशब्दात् पञ्चपदाच, तत्र छप्पया इणमो षट्पदेयं षट्पदा इदानीं वा, किं? कस्य? केन वा? क्व वा? कियच्चिरं? कतिविधो वा भवेन्नमस्कार इति गाथासमुदायार्थः॥ 891 // तत्राऽऽद्यद्वारावयवार्थाभिधित्सयाऽऽह नि०-किं? जीवो तप्परिणओ (दा०१) पुव्वपडिवन्नओउजीवाणं / जीवस्स व जीवाण व पडुच्च पडिवज्जमाणं तु / / 892 // किंशब्दः क्षेपप्रश्ननपुंसकव्याकरणेषु, तत्रेह प्रश्ने, अयं च प्राकृतेऽलिङ्गः सर्वनामनपुंसकनिर्देशः सर्वलिङ्गः सह यथायोगमभिसम्बध्यते, किंसामायिकं ? को नमस्कारः?, तत्र नैगमाद्यशुद्धनयमतमधिकृत्याजीवादिव्युदासेनाह-जीवो नाजीवः, सच सङ्ग्रहनयापेक्षया मा भूदविशिष्टः स्कन्धः, यथाऽऽहुस्तन्मतावलम्बिन:- 'पुरुष एवेदं सर्वंयद्भूतं यच्च भाव्यम्, उतामृतत्वस्येशानो यदन्नेनातिरोहती'त्यादि, तथा तन्नयविशेषापेक्षयैव मा भूदविशेषो ग्राम इत्यतो नोस्कन्धोनोग्राम इति वाक्यशेषः, सर्वास्तिकायमयः स्कन्धः, तद्देशो जीवः, स चैकदेशत्वात् स्कन्धो न भवति, अनेकस्कन्धापत्तेः, अस्कन्धोऽपि न भवति, स्कन्धाभावप्रसङ्गाद्, अनभिलाप्योऽपि न भवति, वस्तुविशेषत्वात्, तस्मान्नोस्कन्धः, स्कन्धैकदेश इत्यर्थः, स्कन्धदेशविशेषार्थद्योतको नोशब्दः, एवं नोग्रामोऽपि भावनीयः, नवरंग्राम:- चतुर्दशभूतग्रामसमुदायः, यथोक्तं- एगिदिय सुहमियरा एकेन्द्रियाः सूक्ष्मेतराः 0.5 नमस्कारव्याख्या, नियुक्तिः 891-892 किंकस्य केन कियच्चिर कतिविधमिति षट्पदा, सत्पदाथैगतीन्द्रियादिषु नवपदा, आरोपणाभजनापृच्छादापनानिर्यापनाभिः पञ्चविधा प्ररूपणा। // 667 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy