________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 664 // भाष्यकृता तत्तु नोच्यते ग्रन्थविस्तरभयाद्, गमनिकामात्रमेवैतदिति गाथार्थः // 888 // यदुक्तं-'त्रिविधस्वामित्वादिति, तत् त्रिविधस्वामित्वमुपदर्शयन्नाह नि०- समुट्ठाण 1 वायणा 2 लद्धिओ ३य पढमे नयत्तिए तिविहं / उज्जुसुय पढमवजं सेसनया लद्धिमिच्छति // 889 // समुत्थानतो वाचनातो लब्धितश्च नमस्कारः समुत्पद्यत इति वाक्यशेषः, सम्यक् सङ्गतं प्रशस्तं वोत्थानं समुत्थानं तन्निमित्तं नमस्कारस्य, कस्य समुत्थानं?, अन्यस्याश्रुतत्वात्तदाधारभूतत्वात् प्रत्यासन्नत्वा देहस्यैव गृह्यते इति, युक्तं च देहसमुत्थानं नमस्कारकारणम्, तद्भावभावित्वान्यथाऽनुपपत्तेरिति, अतः समुत्थानतः१ वाचनं वाचना- परतः श्रवणं अधिगम उपदेश इत्यनर्थान्तरम्, सा च नमस्कारकारणम्, तद्भावभावित्वादेवेति, अतो वाचनातः 2, लब्धिः- तदावरणकर्मक्षयोपशमलक्षणा, सा च कारणम्, तद्भावभावित्वादेव, अतो लब्धितश्च 3, पदान्तप्रयुक्तश्चशब्दो नयापेक्षया त्रयाणामपि प्राधान्यख्यापनार्थः / अत एवाह- पढमे णयत्तिए तिविहं ति प्रथमे नयत्रिकेऽशुद्धनैगमसङ्घहव्यवहाराख्ये विचार्ये समुत्थानादि त्रिविधं नमस्कारकारणमिति, आह- प्रथमे नयत्रिकेऽशुद्धनगमसङ्ग्रहौ कथं त्रिविधं कारणमिच्छतः?, तयोः सामान्यमात्रावलम्बित्वाद्, उच्यते, 'आदिनेगमस्यऽणुप्पन्न' इत्यत्रैव प्रथमनयत्रिकात् तयोरुत्कलितत्वान्न दोषः, उज्जुसुयपढमवजंति ऋजुसूत्रः प्रथमवर्ज-समुत्थानाख्यकारणशून्यं कारणद्वयमेवेच्छति, समुत्थानस्य व्यभिचारित्वात्, तद्भावेऽपि वाचनालब्धिशून्यस्यासम्भवात्, सेस नया लद्धिमिच्छंति त्ति शेषनयाः- शब्दादयोलब्धिमेव एकाकारणमिच्छन्ति, वाचनाया अपि व्यभिचारित्वात्, तथाहि- सत्यामपि वाचनायां लब्धिरहितस्य गुरुकर्मणोऽभव्यस्य वा नैवोत्पद्यते नमस्कारः, तस्यां सत्यामेवोत्पद्यते, ततोऽसाधारणत्वात्सैव कारणमिति गाथार्थः॥ 889 // द्वारं 1 // इदानीं निक्षेपः, स च चतुर्धा- नामनमस्कारः स्थापना नमस्कारव्याख्या, नियुक्ति: 889 आदिनैगमेअनुत्पन्न:शेषाणां समुत्थानवाचनालब्धित उत्पन्नः। // 664 //