SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 663 // नमस्कारव्याख्या, निर्यक्ति: 88 आदिनैगमेनुत्पन्न: शेषाणां आक्षेपः आशङ्केत्यर्थः, सा च कार्या, प्रसिद्धिः तत्परिहाररूपा वाच्येति, क्रमः अर्हदादिरभिधेयः, प्रयोजनं तद्विषयमेव, अथवा येन प्रयुक्तः प्रवर्तते तत्प्रयोजनं- अपवर्गाख्यम्, तथा फलं तच्च क्रियाऽनन्तरभावि स्वर्गादिकम्, अन्ये तु व्यत्ययेन प्रयोजनफलयोरर्थं प्रतिपादयन्ति, नमस्कारः (9500 ग्रन्थाग्रं) खल्वेभिरिश्चिन्त्य इति गाथासमुदायार्थः / / 887 // यथोद्देशं निर्देश' इति न्यायमाश्रित्योत्पत्तिद्वारनिरूपणायाऽऽह नियुक्तिकारः नि०- उत्पन्नाऽणुप्पन्नो इत्थ नयाऽऽइनिगमस्सऽणुप्पन्नो / सेसाणं उत्पन्नो जइ कत्तो?, तिविहसामित्ता॥८८८॥ उत्पन्नश्चासावनुत्पन्नश्चस इति समानाधिकरणः,क्तेन नविशिष्टेनानञ् (पा-२-१-६) कृताकृतादिवदुत्पन्नानुत्पन्नः, स्याद्वादिन एव एवं प्रकारः समासो युज्यते, नान्यस्यैकान्तवादिनः, एकत्रैकदा परस्परविरुद्धधर्मानभ्युपगमात्, आह- स्याद्वादिनोऽपि कथमेकत्रैकदा परस्परविरुद्धधर्माध्यास इति, उच्यते, एत्थ णय त्ति अत्र नयाः प्रवर्तन्ते, ते च नैगमादयः सप्त, नैगमोऽपि द्विभेदः-सर्वसङ्गाही देशसङ्गाहीच, तत्रादिनैगमस्य सामान्यमात्रावलम्बित्वात् तस्य चोत्पादव्ययरहितत्वान्नमस्कारस्यापि तदन्तर्गतत्वादनुत्पन्नः, सेसाणं उप्पण्णो त्ति शेषा:-विशेषग्राहिणस्तेषां शेषाणां विशेषग्राहित्वात् तस्य चोत्पादव्ययवत्त्वात् उत्पादव्ययशून्यस्य वान्ध्येयादिवदवस्तुत्वात् नमस्कारस्य च वस्तुत्वादुत्पन्न इति, आह- शेषाः सङ्ग्रहादयः, सङ्ग्रहस्य च विशेषग्राहित्वं नास्तीति, उच्यते, तस्यादिनैगम एवान्तर्भावान्न दोष इति, अतः शेषाणामुत्पन्नः, जइ कत्तो त्ति यद्युत्पन्नः कुत? इति, आह-तिविह-सामित्ता त्रिविधं च तत् स्वामित्वं चेति समासः, तस्मात्रिविधस्वामित्वात्-त्रिविधस्वामिभावात् त्रिविधकारणादित्यर्थः / आह- एवमप्येकत्रैकदा परस्परविरुद्धधर्माध्यासदोषस्तदवस्थ एव, न, अशेषवस्तुन एव तत्त्वतः सामान्यविशेषात्मकत्वात्, सामान्यधर्मैःसत्त्वादिभिरनुत्पादाद विशेषधर्मः संस्थानानुपूर्व्यादिभिरुत्पादाद्, विजृम्भितं चात्र समुत्थानवाचनालब्धित उत्पन्नः। // 663 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy