SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 661 // निर्दोषं दोषमुक्तं सारवत्बहुपर्यायम्, गोशब्दवत्सामायिकवद्वा, अन्वयव्यतिरेकलक्षणा हेतवस्तद्युक्तम्, अलङ्कतं उपमादिभि ०.४सूत्ररुपेतम्, उपनीतं उपनयोपसंहृतम्, सोपचारं अग्राम्याभिधानम्, मितंवर्णादिनियतपरिमाणम्, मधुरं श्रवणमनोहरम् / अथवाऽन्ये स्पर्शिकसूत्रगुणाः नियुक्तिः सूत्रस्वरूपम्। नि०- अप्पक्खरमसंदिद्धं सौरवं विस्सओमुंहे / अत्थोभेमणवलं च सुत्तं सव्वण्णुभासियं // 886 // नियुक्तिः८८६ अल्पाक्षरं मिताक्षरम्, सामायिकाभिधानवत्, असंदिग्धं सैन्धवशब्दवल्लवणघोटकाद्यनेकार्थसंशयकारि न भवति, सारवत् / सूत्रस्वरूपम्, दोषाः गुणाः बहुपर्यायम्, विश्वतोमुखं अनेकमुखं प्रतिसूत्रमनुयोगचतुष्टयाभिधानात्, प्रतिमुखमनेकार्थाभिधायकं वा सारवत्, अस्तोभकं (8-6) / वैहिहकारादिपदच्छिद्रपूरणस्तोभकशून्यम्, स्तोभकाः- निपाताः, अनवद्यं अगहम्, न हिंसाभिधायकं-'षट् शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि। अश्वमेधस्य वचनान्न्यूनानि पशुभिस्त्रिभिः॥१॥' इत्यादिवचनवत्, एवंभूतं सूत्रं / सर्वज्ञभाषितमिति / ततश्च सूत्रानुगमात् सूत्रेऽनुगतेऽनवद्यमिति निश्चिते पदच्छेदानन्तरं सूत्रपदनिक्षेपलक्षण: सूत्रालापकन्यासः, ततः सूत्रस्पर्शनियुक्तिश्चरमानुयोगद्वारविहिता नयाश्च भवन्ति, समकं चैतदनुगच्छतीति, आह च भाष्यकार:- सुत्तं सुत्ताणुगमो सुत्तालावगकओ य निक्खेवो / सुत्तप्फासियनिजुत्ती णया य समगं तु वच्चंति॥१॥ सूत्रानुगमादीनां चायं विषयः- सपदच्छेद सूत्रमभिधाय अवसितप्रयोजनो भवति सूत्रानुगमः, सूत्रालापकन्यासोऽपि नामादिनिक्षेपमात्रमेवाभिधाय, सूत्रस्पर्शनियुक्तिस्तु , पदार्थविग्रहविचारप्रत्यवस्थानाद्यभिधायेति, तच्च प्रायो नैगमादिनयमतविषयमिति वस्तुतस्तदन्त विन एव नया इति, न चैतत् स्वमनीषिकयोच्यते, यत आह भाष्यकारः-होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो। सुत्तालावयनासो नामाइण्णासविणिओगं // 1 // सुत्तफासियनिज्जुत्तिविनिओगो सेसओ पयत्थाई। पायं सो च्चिय नेगमणयाइमयगोयरो होइ॥२॥ आह- यद्येव // 661 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy