SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 660 // स्वभावतोऽन्यथावचनम्, यथा शीतोऽग्निर्मूर्तिमदाकाशमित्यादि 19, व्यवहितं अन्तर्हितम्, यत्र प्रकृतमुत्सृज्याप्रकृतं ०.४सूत्रव्यासतोऽभिधाय पुनः प्रकृतमभिधीयते, यथा हेतुकथनमधिकृत्य सुप्तिङन्तपदलक्षणप्रपञ्चमर्थशास्त्रं वाऽभिधाय स्पर्शिक नियुक्तिः पुनर्हेतुवचनमित्यादि 20, कालदोषः अतीतादिकालव्यत्ययः, यथा रामो वनं प्राविशदिति वक्तव्ये विशतीत्याह 21, यतिदोषः सूत्रस्वरूपम्, अस्थानविच्छेदः तदकरणं वा 22, छविः अलङ्कारविशेषस्तेन शून्यमिति 23, समयविरुद्धं च स्वसिद्धान्तविरुद्धं यथा / नियुक्ति: 885 सावयस्यासत् कारणे कार्य सद्वैशेषिकस्येत्यादि 24, वचनमात्रं निर्हेतुकं यथेष्टभूदेशे लोकमध्याभिधानवत् 25, अर्थापत्तिदोषः सूत्रस्वरूपम्, दोषा: गुणाः यत्रार्थादनिष्टापत्तिः, यथा 'ब्राह्मणो न हन्तव्य' इति, अर्थादब्राह्मणघातापत्तिः 26, असमासदोषः समासव्यत्ययः, यत्र वा (8-6) / समासविधौ सत्यसमासवचनम्, यथा राजपुरुषोऽयमित्यत्र तत्पुरुषसमासे कर्तव्ये विशेषणसमासकरणंबहुव्रीहिसमासकरणं यदिवा असमासकरणं राज्ञः पुरुषोऽयमित्यादि 27, उपमादोषः हीनाधिकोपमानाभिधानम्, यथा मेरुः सर्षपोपमः, सर्षपो मेरुसमो बिन्दुः समुद्रोपम इत्यादि 28, रूपकदोषः स्वरूपावयवव्यत्ययः, यथा पर्वतरूपावयवानां पर्वतेनानभिधानम्, समुद्रावयवानांचाभिधानमित्यादि 29, अनिर्देशदोषः, यत्रोद्देश्यपदानामेकवाक्यभावोन क्रियते, यथेह देवदत्तः स्थाल्यामोदनं पचतीति वक्तव्ये पचतिशब्दानभिधानं 30, पदार्थदोषः यत्र वस्तुपर्यायवाचिनः पदस्यार्थान्तरपरिकल्पनाऽऽश्रीयते, यथेह द्रव्यपर्यायवाचिनां सत्तादीनां द्रव्यादर्थान्तरपरिकल्पनमुलूकस्य 31, सन्धिदोषः विश्लिष्टसंहितत्वं व्यत्ययो वेति 32 / एभिर्विमुक्तं द्वात्रिंशद्दोषरहितं लक्षणयुक्तं सूत्रं तदिति वाक्यशेषः, द्वात्रिंशद्दोषरहितं यच्च इति वचनात्तच्छब्दनिर्देशो गम्यते॥ अष्टाभिश्च गुणैरुपेतं यत् तल्लक्षणयुक्तमिति वर्त्तते, ते चेमे गुणाः नि०- निद्दोस सारवन्तं च हेउजुत्तमलंकियं। उवणीयं सोवयारंच मियं महुरमेव य॥८८५॥ // 660 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy