________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 659 // 0.4 सूत्रस्पर्शिकनियुक्तिः सूत्रस्वरूपम्, नियुक्तिः 881-884 सूत्रस्वरूपम्, दोषाः गुणा: (8-6) / वाक्छलादि, यथा नवकम्बलो देवदत्त इत्यादि 5, द्रोहस्वभावं द्रुहिलम्, यथा- यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत्। आकाशमिव पङ्केन, नासौ पापेन युज्यते // 1 // कलुषं वा द्रुहिलम्, येन पुण्यपापयोः समताऽऽपाद्यते, यथा-‘एतावानेव लोकोऽयम्, यावानिन्द्रियगोचरः' इत्यादि 6, निःसारं परिफल्गु वेदवचनवत् 7, वर्णादिभिरभ्यधिकं- अधिकं 8, तैरेव हीनं- ऊनं 9, अथवा हेतूदाहरणाधिकमधिकम्, यथाऽनित्यः शब्दः कृतकत्वप्रयत्नानन्तरीयकत्वाभ्यां घटपटवदित्यादि, एताभ्यामेव हीनं- ऊनं यथा- अनित्यः शब्दो घटवत् अनित्यः शब्दः कृतकत्वादित्यादि 8-9, शब्दार्थयोः पुनर्वचनं पुनरुक्तं अन्यत्रानुवादात्, अर्थादापन्नस्य स्वशब्देन पुनर्वचनम्, तत्र शब्दपुनरुक्तं- इन्द्र इन्द्र इति, अर्थपुनरुक्तं- इन्द्रः शक्र इति, अर्थादापन्नस्य स्वशब्देन पुनर्वचनम्, यथा-पीनो देवदत्तो दिवा न भुङ्क्ते बलवान् पटिन्द्रियश्च, अर्थादापन्नं रात्री भुङ्क्ते इति, तत्र यो ब्रूयात्- दिवा न भुङ्क्ते रात्रौ भुङ्क्ते इति स पुनरुक्तमाह 10, व्याहतं यत्र पूर्वेण परं विहन्यते, यथा'कर्म चास्ति फलं चास्ति, कर्ता नास्ति च कर्मणा' मित्यादि 11, अयुक्तं अनुपपत्तिक्षमम्, यथा-'तेषां कटतटभ्रष्टैगजानां मदबिन्दुभिः / प्रावर्तत नदी घोरा, हस्त्यश्वरथवाहिनी॥१॥' इत्यादि 12, क्रमभिन्नं यत्र यथासङ्ख्यमनुदेशो न क्रियते, यथा 'स्पर्शनरसनघ्राणचक्षुःश्रोत्राणामाःस्पर्शरसगन्धवर्णशब्दा' इति वक्तव्ये स्पर्शरूपशब्दगन्धरसा इति ब्रूयात् इत्यादि 13, वचनभिन्नं वचनव्यत्ययः, यथा वृक्षावेतौ पुष्पिताः इत्यादि 14, विभक्तिभिन्नं विभक्तिव्यत्ययः, यथैष वृक्ष इति वक्तव्ये एष वृक्षमित्याह 15, लिङ्गभिन्नं लिङ्गव्यत्ययः, यथेयं स्त्रीति वक्तव्येऽयं स्त्रीत्याह 16, अनभिहितं अनुपदिष्टं स्वसिद्धान्ते, यथा सप्तमः पदार्थो दशमं द्रव्यं वा वैशेषिकस्य, प्रधानपुरुषाभ्यामभ्यधिकं साङ्क्षयस्य, चतुःसत्यातिरिक्तं शाक्यस्येत्यादि 17, अपदं पद्यविधौ पद्ये विधातव्येऽन्यच्छन्दोऽभिधानम्, यथाऽऽर्यापदे वैतालीयपदाभिधानं 18, स्वभावहीनं यद्वस्तुनः