________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ | // 598 // न्मुक्तशयनः तथोन्मुञ्चन् चतुर्णामन्यतरत् प्रतिपद्यते प्राक्प्रतिपन्नश्च भवति, एवं शेषयोजना कार्या, इति गाथार्थः // 829 / / उपोद्घातनिर्युक्तौ द्वितीयद्वारगाथायां क्वेति द्वारं गतम्, अधुना केष्विति द्वारं व्याचिख्यासुराह नि०-सव्वगयं सम्मत्तंसुए चरित्ते ण पज्जवासव्वे / देसविरइंपडुच्चा दोण्हवि पडिसेहणं कुजा॥८३०॥ __ अथ केषु द्रव्येषु पर्यायेषु वा सामायिकमिति?, तत्र सर्वगतं सम्यक्त्वम्, सर्वद्रव्यपर्यायरुचिलक्षणत्वात् तस्य, तथा श्रुतसामायिके चारित्रे चारित्रसामायिकेन पर्यायाः सर्वे विषयाः, श्रुतस्याभिलाप्यविषयत्वाद्, द्रव्यस्य चाभिलाप्यानभिलाप्यपर्याययुक्तत्वात्, चारित्रस्यापि पढमंमि सव्वजीवा' इत्यादिना सर्वद्रव्यासर्वपर्यायविषयतायाः प्रतिपादितत्वात्, देशविरतिं प्रतीत्य द्वयोरपि-सकलद्रव्यपर्याययोः प्रतिषेधनं कुर्यात्, न सर्वद्रव्यविषयं नापि सर्वपर्यायविषयं देशविरतिसामायिकमिति भावना। आह-अयं सामायिकविषयः किंद्वारे प्ररूपित एवेति किं पुनरभिधानं? उच्यते, किंतदिति तत्र सामायिकं जातिमात्रमुक्तम्, विषयविषयिणोरभेदेन, इह पुनः सामायिकस्य किंद्वार एव द्रव्यत्वगुणत्वनिरूपितस्य ज्ञेयभावेन विषयाभिधानमिति, आह च भाष्यकार:- किं तन्ति जातिभावेण तत्थ इह णेयभावतोऽभिहितं। इह विसयविसयिभेदो तत्थाभेदोवयारो त्ति // १॥गाथार्थः ॥८३०॥केष्विति गतम्, कथं पुनः सामायिकमवाप्यते?, तत्र चतुर्विधमपि मनुष्यादिस्थानावाप्तौ सत्यामवाप्यत इतिकृत्वा तत्क्रमदुर्लभताख्यापनायाह नियुक्तिकारः नि०-माणुस्स खेत्त जाई कुलरूवारोग्गमाउयं बुद्धी।सवणोग्गह सद्धा संजमो य लोगंमि दुलहाई॥८३१॥ इंदियलद्धी निव्वत्तणा य पज्जत्ति निरुवहयखेमं / धायारोग्गंसद्धा गाहगउवओग अट्ठो य (अन्यदीया) 0 किं तदिति (द्वारे) जातिद्वारेण तत्रेह ज्ञेयभावतोऽभिहितम्। अत्र विषयविषयिभेदः तत्राभेदोपचार : इति // 1 // 0.3 उपोद्घातनियुक्तिः, 0.3.7 सप्तमद्वारम् निह्नववक्तव्यता। नियुक्ति: 830 सम्यक्त्वादि| विषयः। | नियुक्ति: 831 | मानुष्यार्य| क्षेत्रादिदुर्लभत्वे चोल्लकादिदृष्टान्ता:। // 598 //