________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 597 // मणुएसु अणुव्वट्टे चउरो ति दुगं तु उव्वट्टे मनुष्येष्वनुद्वत्तः सन् चत्वारि प्रतिपद्यते प्राक्प्रतिपन्नश्च भवति, त्रीणि द्विकम्, तुशब्दो विशेषणे, उद्वृत्तस्तिर्यग्नारकामरेष्वायातः त्रीणि द्विकं वाऽधिकृत्योभयथाऽपि भवतीति गाथार्थः / / 826 // नि०- देवेसु अणुव्वट्टेदुगं चउक्वं सिया उ उव्वट्टे। उव्वट्टमाणओ पुण सव्वोऽविन किंचि पडिवज्जे // 827 // देवेष्वनुद्वत्तः सन् द्विकं आद्यं सामायिकद्वयमाश्रित्योभयथाऽपि भवतीति क्रिया, चउक्कं सियाउ उव्वदे॒त्ति पूर्ववत्, उद्वर्तमानकः पुनरपान्तरालगतौ सर्वोऽप्यमरादिर्न किश्चित् प्रतिपद्यते, प्राक्प्रतिपन्नस्तु द्वयोर्भवतीति गाथार्थः ॥८२७॥द्वारम् ॥आश्रवकरणद्वारप्रतिपादनायाह नि०-णीसवमाणो जीवो पडिवजइ सो चउण्हमण्णयरं / पुव्वपडिवण्णओपुण सिय आसवओवणीसवओ॥८२८॥ निश्रावयन् यस्मात् सामायिकं प्रतिपद्यते, तदावरणं कर्म निर्जरयन्नित्यर्थः, शेषकर्म तु बध्नन्नपि जीव-आत्मा प्रतिपद्यते स चतुर्णामन्यतरत्, पूर्वप्रतिपन्नकः पुनः स्यादाश्रवको बन्धक इत्यर्थः, निःश्रावको वा, वाशब्दस्य व्यवहितः सम्बन्धः, आहनिर्वेष्टनद्वारादस्य को विशेष इति?, उच्यते, निर्वेष्टनस्य कर्मप्रदेशविसङ्घातरूपत्वात् क्रियाकालो गृहीतः, निःश्रवणस्य तु निर्जरारूपत्वान्निष्ठाकाल इति, अथवा तत्र संवेष्टनवक्तव्यताऽर्थतोऽभिहिताः, इह तु साक्षादिति गाथार्थः / / 828 // द्वारम् // अधुनाऽलङ्कारशयनासनस्थानचङ्कमणद्वारकदम्बकव्याचिख्यासयाऽऽह नि०- उम्मुक्कमणुम्मुक्के उम्मुंचंते य केसलंकारे। पडिवजेज्जऽन्नयरंसयणाईसुंपिएमेव / / 829 // उन्मुक्ते परित्यक्ते अनुन्मुक्ते अपरित्यक्ते अनुस्वारोऽलाक्षणिकः, उन्मुञ्चश्व केशालङ्कारान्, केशग्रहणं कटककेयूराद्युपलक्षणम्, प्रतिपद्येत अन्यतरच्चतुर्णां सयणादीसुपि एमेव त्ति शयनादिष्वपिद्वारेषु तिसृष्वप्यवस्थास्वेवमेव योजना कार्या, उन्मुक्तशयनोऽनु | 0.3 उपोद्घात| नियुक्तिः, 0.3.7 सप्तम| द्वारम् निह्नव वक्तव्यता। | नियुक्तिः 827-829 सम्यक्त्वश्रुते चतसृषु व्रतं नरे मिश्रुतिर्यक्षु भव्यश्चत्वारि संजयुच्छासकीच। // 597 //