________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 593 // उक्कोसोगाहणगा दोण्हं दुहावि। मणुएसु पुच्छा?, गोतमा! संमुच्छिममणुस्से पडुच्च तिसुवि ओगाहणासु चउण्हपि सामाइयाणं ण पुव्वपडिवण्णगा नो पडिवज्जमाणगा। गब्भवक्कंतिय जहण्णोगाहणमणूसा सम्मत्तसुयाण पुव्वपडिवण्णगा होज्जा णो पडिवज्जमाणगा, अजहण्णुक्कोसोगाहणगा पुण चउण्हवि दुधावि संति, उक्कोसोगाहणगा पुण दुण्हं दुधावी त्यादि, अलं प्रसङ्गेन // गतं द्वारत्रयम्, अधुना लेश्याद्वारावयवार्थमभिधित्सुराह नि०- सम्मत्तसुयं सव्वासुलहइ सुद्धासुतीसुय चरित्तं / पुव्वपडिवण्णगोपुण अण्णयरीए उ लेसाए॥८२२॥ सम्यक्त्वं च श्रुतं चेति एकवद्भावस्तत् सम्यक्त्वश्रुतं सर्वासु कृष्णादिलेश्यासु लभते प्रतिपद्यते, शुद्धासु तेजोलेश्याद्यासु तिसृष्वेव, चशब्दस्यावधारणार्थत्वात्, चारित्रं विरतिलक्षणम्, लभत इति वर्तते, एवं प्रतिपद्यमानकमधिकृत्य लेश्याद्वार निरूपितम्, अधुना प्राक्प्रतिपन्नमधिकृत्याऽऽह- पुव्वपडिवण्णओ पुण अण्णतरीए उ लेसाए पूर्वप्रतिपन्नकः पुनरन्यतरस्यां तु लेश्यायां-कृष्णाद्यभिधानायां भवति / आह- मतिश्रुतज्ञानलाभचिन्तायां शुद्धासु तिसृषु प्रतिपद्यमानक उक्तः कथमिदानी सर्वास्वभिधीयमानः सम्यक्त्वश्रुतप्रतिपत्ता न विरुध्यत इति?, उच्यते, तत्र कृष्णादिद्रव्यसाचिव्यजनिताऽऽत्मपूरिणामरूपां भावलेश्यामाश्रित्यासावुक्तः, इह त्ववस्थितकृष्णादिद्रव्यरूपां द्रव्यलेश्यामेव इत्यतो न विरोधः, उक्तं च- से णूणं भंते! किण्हलेसा णीललेस्सं पप्प णो तारूवत्ताए णो तावण्णत्ताए णो तागंधत्ताए णो तारसत्ताए णो ताफासत्ताए भुजो भुजो परिणमति?, हंता उत्कृष्टावगाहना द्वयोर्द्विधाऽपि / मनुजेषु पृच्छा?, गौतम! संमूर्छनजमनुष्यान् प्रतीत्य तिसृष्वप्यवगाहनासु चतुर्णामपि सामायिकादीनां न पूर्वप्रतिपन्ना न प्रतिपद्यमानाः / गर्भव्युत्क्रान्तिकजघन्यावगाहनमनुष्याः सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्ना भवेयुर्न प्रतिपद्यमानाः, अजघन्योत्कृष्टावगाहनाः पुनश्चतुर्णामपि द्विधाऽपि सन्ति, उत्कृष्टावगाहनाः पुनर्द्वयोर्द्विधाऽपि / 0 अथ नूनं भदन्त! कृष्णलेश्या नीललेश्यां प्राप्य न तद्रूपतया नो तद्वर्णतया न तद्गन्धतया न तद्रसतया न तत्स्पर्शतया भूयो भूयः परिणमति?, - 0.3 उपोद्घातनियुक्तिः, 0.3.7 सप्तमद्वारम् निह्नववक्तव्यता। | नियुक्तिः 822 सम्यक्त्वश्रुते चतसृषु व्रतं नरे मिश्रं तिर्यक्षु भव्यश्चत्वारि संयुच्छासकौ च।