SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 589 // 817 // द्वारं / साम्प्रतं वेदसंज्ञाकषायद्वारत्रयं व्याचिख्यासुराह नि०- चउरोऽवि तिविहवेदे चउसुवि सण्णासु होइ पडिवत्ती। हेट्ठा जहा कसाएसु वण्णिय तह य इहयंपि।। 818 // चत्वार्यपि सामायिकानि त्रिविधवेदे स्त्रीपुंनपुंसकलक्षणे उभयथाऽपि, सन्तीति वाक्यशेषः, इयं भावना चत्वार्यपि सामायिकान्यधिकृत्य त्रिविधवेदे विवक्षिते काले प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येव, अवेदस्तु देशविरतिरहितानां त्रयाणां पूर्वप्रतिपन्नः स्यात्, क्षीणवेदः क्षपको, नतु प्रतिपद्यमानकः॥द्वारम् ॥तथा चतसृष्वपि संज्ञासु आहारभयमैथुनपरिग्रहरूपासु चतुर्विधस्यापि सामायिकस्य भवति प्रतिपत्तिः प्रतिपद्यमानको भवति, न न भवति, इतरस्त्वस्त्येव॥ द्वारम् ॥अधो यथा पढमिल्लुगाण उदये' इत्यादिना कषायेषु वर्णितम्, इहापि तथैव वर्णितव्यम्, समुदायार्थस्त्वयं-सकषायी चतुर्णामप्युभयथाऽपि भवति, अकषायी तु छद्मस्थवीतरागस्त्रयाणां पूर्वप्रतिपन्नो भवति, तु प्रतिपद्यमानकः। द्वारमिति गाथार्थः / / 818 // गतं द्वारत्रयम्, साम्प्रतमायुर्ज्ञानद्वारद्वयाभिधित्सयाऽऽह नि०-संखिज्जाऊ चउरो भयणा सम्मसुयऽसंखवासीणं / ओहेण विभागेण य नाणी पडिवज्जई चउरो॥८१९॥ सङ्ख्येयायुर्नरः चत्वारि प्रतिपद्यते, प्रतिपन्नस्त्वस्त्येवेति वाक्यशेषः, भयणा सम्मसुयऽसंखवासीणं ति भजना- विकल्पना सम्यक्त्वश्रुतसामायिकयोरसङ्ख्येयवर्षायुषाम्, इयं भावना-विवक्षितकालेऽसङ्ग्येयवर्षायुषांसम्यक्त्वश्रुतयोः प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति // द्वारं ॥ओहेण विभागेण य णाणी पडिवज्जए चउरो त्ति ओघेन- सामान्येन ज्ञानी प्रतिपद्यते चत्वार्यपि नयमतेन, पूर्वप्रतिपन्नस्त्वस्त्येव, विभागेन चाभिनिबोधिकश्रुतज्ञानी युगपदाद्यसामायिकद्वयप्रतिपत्ता सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति, उपरितनसामायिकद्वयस्यापि प्रतिपद्यमानकः सम्भवति, इतरस्त्वस्त्येवेति, अवधिज्ञानी सम्यक्त्व | 0.3 उपोद्घातनियुक्तिः, 0.3.7 सप्तमद्वारम् निववक्तव्यता। | नियुक्तिः 818-819 सम्यक्त्वश्रुते चतसृषु व्रतं नरे मिश्रं तिर्यक्षु भव्यश्चत्वारि संज्ञयुच्छासको च। // 589 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy