SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 587 // * उच्छृसितीति उच्छ्रासकः, निःश्वसितीति निःश्वासकः, आनापानपर्याप्तिपरिनिष्पन्न इत्यर्थः, स हि चतुर्णामपि प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति वाक्यशेषः, मिश्रः खल्वानापानपर्याप्त्याऽपर्याप्तो भण्यते, तत्र प्रतिपत्तिमङ्गीकृत्य प्रतिषेधः, नासौ चतुर्णामपि प्रतिपद्यमानकः सम्भवतीति भावना, दुविहपडिवन्नो त्ति स एव द्विविधस्य सम्यक्त्वश्रुतसामायिकस्य प्रतिपन्नः- पूर्वप्रतिपन्नो भवति, देवादिर्जन्मकाल इति, अथवा 'मिश्रः' सिद्धः, तत्र चतुर्णामप्युभयथाऽपि प्रतिषेधः, द्विविधस्य दर्शनचारित्रसामायिकस्य शैलेशीगतः पूर्वप्रतिपन्नो भवति, असावपिच तावन्मिश्र एवेति / दृष्टौ विचार्यमाणायां द्वौ नयौ खलु विचारकौ- व्यवहारो निश्चयश्चैव, तत्राद्यस्य सामायिकरहितः सामायिकं प्रतिपद्यते, इतरस्य तद्युक्त एव, क्रियाकालनिष्ठाकालयोरभेदादिति गाथार्थः।। ८१४॥गतं द्वारद्वयम्, साम्प्रतमाहारकपर्याप्तकद्वारद्वयं प्रतिपादयन्नाह नि०- आहारओ उजीवो पडिवज्जइ सो चउण्हमण्णयरं / एमेव य पज्जत्तो सम्मत्तसुए सिया इयरो।। 815 // आहारकस्तु जीवः प्रतिपद्यते स चतुर्णामन्यतरत्, पूर्वप्रतिपन्नस्तु नियमादस्त्येव, एवमेव च पर्याप्तः षड्भिरप्याहारादिपर्याप्तिभिचतुर्णामन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येव, सम्मत्तसुए सिया इयरो त्ति इतरः- अनाहारकोऽपर्याप्तकश्च, तत्रानाहारकोऽपान्तरालगतौ सम्यक्त्वश्रुते अङ्गीकृत्य स्यात्- भवेत् पूर्वप्रतिपन्नः, प्रतिपद्यमानकस्तु नैवेति वाक्यशेषः, केवली तु समुद्धातशैलेश्यवस्थायामनाहारको दर्शनचरणसामायिकद्वयस्येति, अपर्याप्तोऽपि सम्यक्त्वश्रुते अधिकृत्य स्यात् पूर्वप्रतिपन्न इति गाथार्थः॥८१५॥गतं द्वारद्वयम्, साम्प्रतं सुप्तजन्मद्वारद्वयव्याचिख्यासयेदमाह नि०-णिद्दाए भावओऽवि य जागरमाणो चउण्हमण्णयरं / अंडयपोयजराउय तिग तिग चउरो भवे कमसो॥८१६ // इह सुप्तो द्विविधः- द्रव्यसुप्तो भावसुप्तश्च, एवं जाग्रदपीति, तत्र द्रव्यसुप्तो निद्रया, भावसुप्तस्त्वज्ञानी, तथा द्रव्यजागरो 0.3 उपोद्घात| नियुक्तिः, 0.3.7 सप्तमद्वारम् निह्नववक्तव्यता। नियुक्तिः 815-816 सम्यक्त्वश्रुते चतसृषु व्रतं नरे मिश्रं तिर्यक्षु भव्यश्चत्वारि संज्ञयुच्छासको च। // 587 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy