SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 579 // यः समः मध्यस्थः, आत्मानमिव परं पश्यतीत्यर्थः, सर्वभूतेषु सर्वप्राणिषु त्रसेषु द्वीन्द्रियादिषु स्थावरेषु च पृथिव्यादिषु, तस्य 0.3 उपोद्घातसामायिकं भवति, एतावत् केवलिभाषितमिति गाथार्थः // साम्प्रतं फलप्रदर्शनद्वारेणास्य करणविधानं प्रतिपादयन्नाह- नियुक्तिः, 0.3.7 सप्तमनि०- सावजजोगप्परिवजणट्ठा, सामाइयं केवलियं पसत्थं / गिहत्थधम्मा परमंतिणच्चा, कुजा बुहो आयहियं परत्थं // 799 // द्वारम् निह्नवसावद्ययोगपरिवर्जनार्थं सामायिकं कैवलिकं परिपूर्ण प्रशस्तं पवित्रम्, एतदेव हि गृहस्थधर्मात् परमं प्रधानं इति एवं ज्ञात्वा कुर्याद् , वक्तव्यता। बुधः विद्वान् आत्महितं आत्मोपकारकं परार्थं इति परः- मोक्षस्तदर्थम्, न तु सुरलोकाद्यवाप्त्यर्थम्, अनेन निदानपरिहारमाह, नियुक्तिः 799-800 इति वृत्तार्थः॥ 799 // परिपूर्णसामायिककरणशक्त्यभावे गृहस्थोऽपि गृहस्थसामायिकं करेमि भंते! सामाइयं सावज्ज | सामायिकजोगं पच्चक्खामि दुविहं तिविहेणंजाव नियमं पञ्जुवासामी'त्येवं कुर्यात्, आह- तस्य सर्वं त्रिविधं त्रिविधेन प्रत्याचक्षाणस्य | स्वरूपं, बहुशो देशको दोष इति?, उच्यते, प्रवृत्तकारम्भानुमत्यनिवृत्त्या करणासम्भव एव, तथा भङ्गप्रसङ्गदोषश्चेति / आह च सामायिकम्। नि०- सव्वंति भाणिऊणं विरई खलु जस्स सव्विया णत्थि। सोसव्वविरइवाईचुक्कड़ देसंच सव्वं च // 800 // सव्वं ति उपलक्षणात् सर्वं सावधं योगं प्रत्याख्यामि त्रिविधं त्रिविधेन, इत्येवं भाणिऊण अभिधाय विरतिः निवृत्तिः खलु यस्य सर्विका सर्वा नास्ति, प्रवृत्तकारम्भानुमतिसद्भावात्, स सर्वविरतिवादी चुक्कइ त्ति भ्रश्यति देसं च सव्वं चे ति देशविरतिं. सर्वविरतिंच, प्रतिज्ञाताकरणात् / आह-आगमे त्रिविधं त्रिविधेनेति गृहस्थप्रत्याख्यानमुक्तं तत्कथमिति?, उच्यते, स्थूलसावद्ययोगविषयमेव तत्, आह च भाष्यकार:- जति किंचिदप्पजोयणमपप्पं वा विसेसिउं वत्थु / पञ्चक्खेज्ज ण दोसो। सयंभुरमणादिमच्छव्व ॥१॥जो वा निक्खमिउमणो पडिमं पुत्तादिसंतइणिमित्तं / पडिवजिज्ज तओ वा करिज तिविहपि तिविहेणं॥२॥ 0 यदि किश्चिदप्रयोजनमप्राप्य वा विशेष्य वस्तु / प्रत्याचक्षीत न दोषः स्वयम्भूरमणादिमत्स्य इव // 1 // यो वा निष्क्रमितुमनाः प्रतिमां पुत्रादिसन्ततिनिमित्तम् / प्रतिपद्येत सको वा कुर्यात्रिविधमपि त्रिविधेन // 2 // 2 // 579 // 8
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy