SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 576 // नि०- उप्पाजंति वयंति य परिणम्मति य गुणा ण दव्वाई। दव्वप्पभवा य गुणा ण गुणप्पभवाइंदव्वाइं॥७९३॥ 0.3 उपोद्घातउत्पद्यन्ते व्ययन्ते च, अनेनोत्पादव्ययरूपेण परिणमन्ति च गुणाः, चशब्द एवकारार्थः स चावधारणे, तस्य चैवं प्रयोगः नियुक्तिः, 0.3.7 सप्तमगुणा एव न द्रव्याण्युत्पादव्ययरूपेण परिणमन्तीति, अतस्त एव सन्ति, उत्पादव्ययपरिणामत्वात्, पत्रनीलतारक्ततादिवत्, द्वारम् निह्नवतदतिरिक्तस्तु गुणा नास्त्येव, उत्पादव्ययपरिणामरहितत्वाद्, वान्धेयादिवत्, किञ्च दव्वप्पभवा य गुणा न द्रव्यात् प्रभवो येषां वक्तव्यता। | नियुक्तिः ते द्रव्यप्रभवाः, चशब्दो युक्त्यन्तरसमुच्चये, गुणा न भवन्ति, तथा गुणप्रभवाणि द्रव्याणि, नैवेति वर्तते, अतो न कारणत्वं | 793-794 नापिकार्यत्वं द्रव्याणामित्यभावः,सतः कार्यकारणरूपत्वात्, अथवा द्रव्यप्रभवाश्च गुणा न, किन्तु गुणप्रभवाणि द्रव्याणि, द्रव्यार्थिक | पर्यायार्थिकप्रतीत्यसमुत्पादोपजातगुणसमुदये द्रव्योपचारात्, तस्माद् गुणः सामायिकमिति गाथार्थः / एवं पर्यायार्थिकेन स्वमते योर्द्रव्यगुणप्रतिपादिते सति द्रव्यार्थिक आह- द्रव्यं प्रधानं न गुणाः, यस्मात् सामायिकत्वे वाद:। नि०-जंजंजेजे भावे परिणमइपओगवीससा दव्वं / तंतह जाणाइ जिणो अपज्जवे जाणणा नत्थि॥७९४॥दारं / / यद् यद् यान् यान् भावान् विज्ञानघटादीन् परिणमति प्रयोगविस्रसातो द्रव्यं तत्, प्रयोगेन घटादीन् विश्रसातोऽभ्रेन्द्रधनुरादीन्, द्रव्यमेव तदुत्प्रेक्षितपर्यायमुत्फणविफणकुण्डलितादिपर्यायसमन्वितसर्पद्रव्यवत्, तथाहि-न तत्र केचनोत्फणादयःसर्पद्रव्यातिरिक्ताः सन्ति, निर्मूलत्वात्, किन्तु तदेव तत्र परमार्थसदिति, किञ्च- तत् तथैव अन्वयप्रधानं पर्यायोपसर्जनं जानाति / परिच्छिनत्ति जिनः अपज्जवे जाणणा णत्थि त्ति अपर्याये-निराकारे 'जाणणा नत्थि'त्ति परिज्ञा नास्ति, न च ते पर्यायाः तत्र // 576 // वस्तुनि सन्तो द्रव्यमेव, तदाकारवत्, ततश्च तदेव सत्, केवलिनाऽप्यवगम्यमानत्वात्, केवलस्वात्मवत्, तस्माज्जीव एव सामायिकमिति गाथार्थः॥अथवा 'उप्पजंति'त्ति इयमेव गाथा द्रव्यार्थिकमतेन व्याख्यायते- द्रव्यार्थिकवादी पर्यायार्थिक
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy