________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 575 // मूर्छाद्वारेण परिग्रहस्यापि सर्वद्रव्यविषयत्वाच्चरमव्रतस्य च तन्निवृत्तिरूपत्वादशेषद्रव्यविषयतेति पूर्वार्द्धभावना। सेसा महव्वया 0.3 उपोद्धातखलु तदेक्कदेसेण दव्वाणं ति शेषाणि महाव्रतानि, खल्वित्यवधारणार्थः, तस्य च व्यवहितःसम्बन्धः, तेषामेकदेशस्तदेकदेशस्तेन नियुक्तिः, 0.3.7 सप्तमतदेकदेशेनैव हेतुभूतेन द्रव्याणाम्, भवन्तीति क्रियाध्याहारः, कथं?- तृतीयस्य ग्रहणधारणीयद्रव्यादत्तादानविरतिरूपत्वात्, द्वारम् निह्नवचतुर्थस्य च रूपरूपसहगतद्रव्यसम्बन्ध्यब्रह्मविरतिरूपत्वात्, षष्ठस्य च रात्रिभोजनविरतिरूपत्वादिति पश्चार्द्धभावना, इति वक्तव्यता। नियुक्ति: 792 गाथार्थः॥ एवं चारित्रसामायिकं निवृत्तिद्वारेण सर्वद्रव्यविषयं श्रुतसामायिकमपि श्रुतज्ञानात्मकत्वात् सर्वद्रव्यविषयमेव द्रव्यार्थिकसम्यक्त्वसामायिकमपि सर्वद्रव्याणां सगुणपर्यायाणां श्रद्धानरूपत्वात् सर्वविषयमेवेत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः- तत्र पर्यायार्थिकसामायिकमजीवादिव्युदासेन जीव एवेत्युक्तम्, तस्य च नयमतभेदेन द्रव्यगुणप्राप्तौ सकलनयाधारद्रव्यार्थिकपर्यायार्थि योर्द्रव्यगुण सामायिकत्वे काभ्यां स्वरूपव्यवस्थोपस्थापनायाह वादः। नि०-जीवो गुणपडिवन्नो णयस्स दव्वट्ठियस्स सामइयं / सोचेव पज्जवणयट्ठियस्स जीवस्स एस गुणो॥७९२॥ जीवः आत्मा, गुणैः प्रतिपन्नः- आश्रितः- गुणप्रतिपन्नः, गुणाश्च सम्यक्त्वादयः खल्वौपचारिकाः, नयस्य द्रव्यार्थिकस्य / सामायिकमिति वस्तुत आत्मैव सामायिकम्, गुणास्तु तद्व्यतिरेकेणानवगम्यमानत्वान्न सन्त्येव, तत्प्रतिपत्तिरपि तस्य भ्रान्ता, चित्रे निम्नोन्नतभेदप्रतिपत्तिवदिति भावना, स एव सामायिकादिर्गुणः पर्यायार्थिकनयस्य, परमार्थतो यस्माज्जीवस्य एष गुण / इति, उत्तरपदप्रधानत्वात् तत्पुरुषस्य, यथा तैलस्य धारेति, न तत्र धाराऽतिरेकेणापरं तैलमस्ति, एवं न गुणातिरिक्तो जीव इति, इत्थं चेदमङ्गीकर्तव्यमिति मन्यते, तथाहि-गुणातिरिक्तो जीवो नास्ति, प्रमाणानुपलब्धेः, रूपाद्यर्थान्तररूपघटवत्, तस्माद्गुणः सामायिकमिति हृदयम्, न तु जीव इति गाथार्थः॥साम्प्रतं पर्यायार्थिक एव स्वं पक्षं समर्थयन्नाह // 575 //