________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 574 // वक्तव्यता। पच्चक्खाणं ति खलुशब्दः सामायिकस्य जीवपरिणतित्वज्ञापनार्थः, तत् प्रत्याख्यानं जीवपरिणतिरूपत्वाद्विषयमधिकृत्य 0.3 उपोद्धातआवाए सव्वदव्वाणं ति सर्वद्रव्याणामापाते-आभिमुख्येन समवाये, निष्पद्यत इति वाक्यशेषः, तस्य श्रद्धेयज्ञेयक्रियोपयोगित्वात्। नियुक्तिः, 0.3.7 सप्तमसर्वद्रव्याणामिति / आह-किंसामायिकमिति स्वरूपप्रश्ने प्रस्तुते सति विषयनिरूपणमस्यान्याय्यम्, अप्रस्तुतत्वाद्, बाह्य द्वारम् निह्नवशास्त्रवत्, उच्यते, अप्रस्तुतत्वादित्यसिद्धम्, तथाहि-सामायिकस्य विषयनिरूपणं प्रस्तुतमेव, सामायिकस्याङ्गभूतत्वात्, भाष्य:१४९ सामायिकस्वात्मवदित्यलं विस्तरेण, इति गाथार्थः // तत्र यदुक्तं ‘आत्मा खलु सामायिक'मिति, तत्र यथाभूतोऽसौ नियुक्ति: 791 सामायिकं तथाभूतमभिधित्सुराह मूलभाष्यकार: व्रतविषयः ____ भा०-सावजजोगविरओ तिगुत्तो छसुसंजओ। उवउत्तो जयमाणो आया सामाइयं होई // 149 // सर्वजीवादिः। सावद्ययोगविरतः अवद्यं मिथ्यात्वकषायनोकषायलक्षणं सहावद्येन सावधो योगस्तद्विरत:- तद्विनिवृत्तः, त्रिभिः- मनोवाक्कायैर्गुप्तः षट्सु-जीवनिकायेषु संयतः- प्रयत्नवान्, तथाऽवश्यंकर्तव्येषु योगेषु सदोपयुक्तः, यतमानश्च तेष्वेवासेवनया, इत्थम्भूत एवात्मा सामायिकं भवतीति गाथार्थः ॥साम्प्रतं यदुक्तं तंखलुपच्चक्खाणं आवाए सव्वदव्वाणं ति, तत्र साक्षान्महाव्रतरूपंचारित्रसामायिकमधिकृत्य सर्वद्रव्यविषयतामस्योपदर्शयन्नाह नि०- पढमंमि सव्वजीवा बिइए चरिमे यसव्वदव्वाई। सेसा महव्वया खलु तदेक्कदेसेण दव्वाणं // 791 // प्रथमे प्राणातिपातनिवृत्तिरूपे व्रते विषयद्वारेण चिन्त्यमाने सर्वजीवाः त्रसस्थावरसूक्ष्मेतरभेदा विषयत्वेन द्रष्टव्याः, तदनुपालनरूपत्वात् तस्येति, तथा द्वितीये मृषावादनिवृत्तिरूपे चरिमे च परिग्रहनिवृत्तिरूपे सर्वद्रव्याणि विषयत्वेन द्रष्टव्यानि, कथं?, नास्ति पञ्चास्तिकायात्मको लोक इति मृषावादस्य सर्वद्रव्यविषयत्वात्, तन्निवृत्तिरूपत्वाच्च द्वितीयव्रतस्य, तथा // 574 //