SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ | // 571 // नि०- मोत्तूणमेसिमिक्वं सेसाणं जावजीविया दिट्ठी / एक्केक्कस्स य एत्तोदो दो दोसा मुणेयव्वा // 785 // 0.3 उपोद्धातमुक्त्वैषामेकं गोष्ठामाहिलं निह्नवाधमं शेषाणां जमालिप्रभृतीनां प्रत्याख्यानमङ्गीकृत्य यावज्जीविका दृष्टिः, नापरिमाणं नियुक्तिः, 0.3.7 सप्तमप्रत्याख्यानमिच्छन्तीति भावना, आह- प्रकरणादेवेदमवसीयते किमर्थमस्योपन्यास इति?, उच्यते, प्रत्यहमुपयोगेन द्वारम् निह्नवप्रत्याख्यानस्योपयोगित्वान्मा भूत् कश्चित् तथैव प्रतिपद्येत (त्तेति), अतो ज्ञाप्यते-निह्नवानामपि प्रत्याख्याने इयमेव दृष्टिः, वक्तव्यता। नियुक्तिः एकैकस्य च एत्तो त्ति अतोऽमीषांमध्ये द्वौ द्वौ दोषौ विज्ञातव्यौ, मुक्त्वैकमिति वर्तते, भावार्थं तु वक्ष्यामः, परस्परतो यथाऽऽहुर्बहुरता 785-786 जीवप्रदेशिकान्- भवन्तः कारणद्वयान्मिथ्यादृष्टयः, यद्भणथ- एकप्रदेशो जीवः, तथा क्रियमाणं च कृतमित्येवं सर्वत्र निहनवयोज्यम्, गोष्ठामाहिलमधिकृत्यैकैकस्य त्रयो दोषा इति यथाहुर्बहुरतान् गोष्ठामाहिला:- दोषत्रयाद् भवन्तो मिथ्यादृष्टयः / दृष्ट्युपसंहारः, प्रत्येकदोषायत् कृतं कृतमिति भणतः तथा बद्धं कर्म वेद्यते यावज्जीवं च प्रत्याख्यानमिति गाथार्थः। तत्रैता दृष्टयः किं संसाराय स्तत्फलंच। आहोस्विदपवर्गायेत्याशङ्कानिवृत्त्यर्थमाह नि०- सत्तेया दिट्ठीओ जाइजरामरणगब्भवसहीणं / मूलं संसारस्स उ भवंति निग्गंथरूवेणं // 786 // सप्तैता दृष्टयः, बोटिकास्तु मिथ्यादृष्टय एवेति न तद्विचारः, जातिजरामरणगर्भवसतीना मिति, जातिग्रहणान्नारकादिप्रसूतिग्रह इत्यतो गर्भवसतिग्रहणमदुष्टं मूलं कारणम्, भवन्तीति योगः, मा भूत् सकृद्भाविनीनां जातिजरामरणगर्भवसतीनां मूलमिति प्रत्ययः अत आह- संसारस्स उ संसरणं संसार:- तिर्यग्नरनारकामरभवानुभूतिरूपः प्रदीर्घो गृह्यते, तस्यैव तुशब्दस्या 8 // 571 // वधारणार्थत्वात्, निर्ग्रन्थरूपेणेति गाथार्थः॥ आह- एते निह्नवाः किं साधवः? उत तीर्थान्तरीयाः? उत गृहस्था इति?, उच्यते, न साधवः, यस्मात् साधूनामेकस्याप्यर्थाय कृतमशनादि शेषाणामकल्प्यम्, नैवं निह्नवानामिति, आह च
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy