________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 568 // 0.3 उपोद्घातनियुक्तिः, 0.3.7 सप्तमद्वारम् निह्नववक्तव्यता। नियुक्ति: 783 निह्नवमतानि, तदादिपुरुषग्रामकालाः। भाष्य:१४६ - भा०- रहवीरपुरं नयरं दीवगमुजाण अज्जकण्हे य। सिवभूइस्सुवहिंमि य पुच्छा थेराण कहणा य॥१४६ // रहवीरपुर नगरं, तत्थ दीवगमुजाणं, तत्थ अज्जकण्हाणामायरिया समोसढा, तत्थ य एगो सहस्समल्लो सिवभूती नाम, तस्स भज्जा, सा तस्स मायं वड्डेइ-तुज्झ पुत्तो दिवसे 2 अडरत्ते एइ, अहं जग्गामि छुहातिया अच्छामि, ताहे ताए भण्णति-मा दारं देजाहि, अहं अज्ज जग्गामि, सा पसुत्ता, इयरा जग्गइ, अड्डरते आगओ बारं मग्गइ, मायाए अंबाडिओ-जत्थ एयाए वेलाए उग्घाडियाणि दाराणि तत्थ वच्च, सो निग्गओ, मग्गंतेण साहुपडिस्सओ उग्घाडिओ दिट्ठो, वंदित्ता भणति-पव्वावेह मं, ते नेच्छंति, सयं लोओ कओ, ताहे से लिंगं दिण्णं, ते विहरिया। पुणो आगयाणं रण्णा कंबलरयणं से दिण्णं, आयरिएण किं एएण जतीणं?, किं गहियंति भणिऊण तस्स अणापुच्छाए फालियं निसिज्जाओ य कयाओ, ततो कसाईओ। अन्नया जिणकप्पिया वणिज्जंति, जहा-'जिणकप्पिया य दुविहा पाणीपाया पडिग्गहधरा य / पाउरणमपाउरणा एक्केक्का ते भवे दुविहा॥१॥ दुगतिगचउक्कपणगं नवदसएक्कारसेव बारसगं / एए अट्ठ विकप्पा जिणकप्पे होंति उवहिस्स // 2 // केसिंचि 0 रथवीरपुर नगरम्, तत्र दीपकाख्यमुद्यानम्, तत्र आर्यकृष्णा नामाचार्याः समवसृताः, तत्र चैकः सहस्रमल्लः शिवभूतिर्नाम, तस्य भार्या, सा तस्य मातरं कलहयति- तव पुत्रो दिवसे दिवसेऽर्धरात्रे आयाति, अहं जागर्मि क्षुधार्दिता तिष्ठामि, तदा तया भण्यते- मा दारं पिधाः, अहमद्य जागर्मि, सा प्रसुप्ता, इतरा जागर्ति, अर्धरात्रे आगतो द्वारं मार्गयति, मात्रा निर्भर्त्सतः- यत्रैतस्यां वेलायामुद्घाटितानि द्वाराणि तत्र व्रज, स निर्गतः, मार्गयता साधुप्रतिश्रय उद्घाटितो दृष्टः, वन्दित्वा भणति- प्रव्राजयत माम, ते नेच्छन्ति, स्वयं लोचः कृतः, तदा तस्मै लिङ्गं दत्तम्, ते विहृताः। पुनरागतेषु राजा कम्बलरत्नं तस्मै दत्तम् , आचार्येण किमेतेन यतीनां? किं गृहीतमिति भणित्वा तमनापृच्छ्य स्फाटितं निषद्याश्च कृताः, ततः कषायितः। अन्यदा जिनकल्पिका वर्ण्यन्ते, यथा -जिनकल्पिकाश्च द्विविधाः पाणिपात्राः पतग्राहधराश्च / सप्रावरणा अप्रावरणा एकैकास्ते भवेयुर्द्विविधाः॥१॥ द्विकः त्रिकः चतुष्कः पञ्चको नवको दशक एकादशक एव द्वादशकः / एतेऽष्ट विकल्पा जिनकल्पे भवन्त्युपधे / / 2 // केषाश्चि-- 8 // 568 //