________________ 0.3 उपोद्धातनियुक्तिः, 0.3.7 सप्तम श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 565 // माहिलवुत्तंतो कहिओ, ततो गुरुर्भणति- माहिलभणिती मिच्छा, कहं! यदुक्तं- जीवात् कर्म न वियुज्यत इत्यादि, अत्र प्रत्यक्षविरोधिनी प्रतिज्ञा, यस्मादायुष्ककर्मवियोगात्मकं मरणमध्यक्षसिद्धमिति, हेतुरप्यनैकान्तिकः, अन्योऽन्याविभागसम्बद्धानामपि क्षीरोदकादीनामुपायतो वियोगदर्शनात्, दृष्टान्तोऽपि न साधनधर्मानुगतः, स्वप्रदेशस्य युक्तत्वासिद्धेः, ताद्रूप्येणानादिरूपत्वाद्भिन्नं च जीवात् कर्मेति, तथा यच्चोक्तं- 'जीवः कर्मणा स्पृष्टो न बध्यत इत्यादि' अत्रापि किं प्रतिप्रदेशंस्पृष्टो नभसेव उत त्वङ्मात्रे कञ्चकेनेव, यदि प्रतिप्रदेशं दृष्टान्तदाान्तिकयोरसाम्यम्, कञ्चकेन प्रतिप्रदेशमस्पृष्टत्वात्, अथ त्वग्मात्रे स्पृष्ट इति, ततो नापान्तरालगत्यनुयायि कर्म, पर्यन्तमात्रवर्त्तित्वाद्, बाह्याङ्गमलवत्, एवं च सर्वो जीवो मोक्षभाक्, कर्मानुगमरहितत्वात्, मुक्तवत्, तथाऽन्तर्वेदनाऽभावप्रसङ्गः, तन्निमित्तकाभावात्, सिद्धस्येव, न च भिन्नदेशस्यापि वेदनाहेतुत्वं युज्यते,शरीरान्तरगतेनातिप्रसङ्गात्, नच स्वकृतत्वं निबन्धनम्, अत्रान्तर्वर्तिप्रदेशानां कर्मयोगरहितानां कर्तृत्वानुपपत्तेः, तस्माद् यत् किञ्चिदेतदिति / एवं गेण्हिऊण सो विंझेण भणितो- एवं आयरिया भणंति, ततो सो तुण्हिक्को टिओ चिंतेइ- समप्पउ तो खोडेहामि, अन्नया नवमे पुव्वे साहूण पच्चक्खाणं वण्णिज्जइ, जहा- पाणाइवायं पच्चक्खामि जावजीवाए इत्यादि, गोष्ठामाहिलो भणति- नैवं सोहणं, किं तर्हि? भा०- पच्चक्खाणं सेयं अपरिमाणेण होइ कायव्वं / जेसिंतु परीमाणं तंदुटुं आससा होई॥१४४॥ वक्तव्यता। नियुक्ति: 783 निह्नवमतानि, | तदादिपुरुषग्रामकालाः। भाष्यः१४४ // 565 // माहिलवृत्तान्तः कथितः, ततो गुरुर्भणति- माहिलभणितिर्मिथ्या, कथं? 0 एवं गृहीत्वा स विन्ध्येन भणितः- एवमाचार्या भणन्ति, ततः स तूष्णीकः स्थितश्चिन्तयति- समाप्यतां ततः स्खलयिष्यामि, अन्यदा नवमे पूर्व साधूनां प्रत्याख्यानं वर्ण्यते, यथा प्राणातिपातं प्रत्याख्यामि यावज्जीवम्, नैवं शोभनम् /