________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 77 // नि०- वुड्डी वा हाणी वा, चउव्विहा होइ खित्तकालाणं। दव्वेसु होइ दुविहा, छव्विह पुण पज्जवे होइ // 59 // तत्र चलो ह्यवधिः वर्धमानः क्षीयमाणो वा भवति, सा च वृद्धिर्हानिर्वा चतुर्विधा भवति क्षेत्रकालयोः, तथा चाभ्यधायि परमगुरुणा-असंखेजभागवुड्डी वा संखेज्जभागवुड्डी वा संखेजगुणवुड्डी वा असंखेज्जगुणवुड्डीवा, एवं हानिरपि, नतु अनन्तभागवृद्धिरनन्तगुणवृद्धिा , एवं हानिरपि, क्षेत्रकालयोरनन्तयोरदर्शनात्, तथा द्रव्येषु भवति द्विधा वृद्धिर्हानिर्वा, कथं?- अनन्तभागवृद्धिर्वा अनन्तगुणवृद्धिर्वा, एवं हानिरपि, द्रव्यानन्त्यादिति भावार्थः / तथा षड्डिधा पर्याये इति जात्यपेक्षमेकवचनं पर्यायेषु भवति, वृद्धि हानिर्वेति वर्त्तते, पर्यायानन्त्यात्, कथं?- अनन्तभागवृद्धिः असङ्खयेयभागवृद्धिः सङ्खयेयभागवृद्धिः सङ्खयेयगुणवृद्धिः असङ्खयेयगुणवृद्धिः अनन्तगुणवृद्धिरिति, एवं हानिरपि / आह-क्षेत्रस्यासङ्खयेयभागादिवृद्धौ तदाधेयद्रव्याणामपि तन्निबन्धनत्वादसङ्खयेयभागादिवृद्धिरेवास्तु, तथा द्रव्यस्यानन्तभागादिवृद्धौ सत्यां तत्पर्यायाणामपि अनन्तभागादिवृद्धिरिति षट्स्थानकमनुपपन्नमिति, अत्रोच्यते, सामान्यन्यायमङ्गीकृत्य इदमित्थमेव, यदा क्षेत्रानुवृत्त्या पुद्गलाःपरिसंख्यायन्ते, पुद्गलानुवृत्या च तत्पर्यायाः, न चात्रैवम्, कथं?- यस्मात्स्वक्षेत्रादनन्तगुणा: पुद्गलाः, तेभ्योऽपि पर्याया इति, अतो यस्य यथैवोक्ता वृद्धिर्हानिर्वातस्य तथैवाविरुद्धेति, प्रतिनियतविषयत्वात्, विचित्रावधिनिबन्धनाच्चेति गाथार्थः // 59 // एवं तावच्चलद्वारं व्याख्यातम्, इदानीं तीव्रमन्दद्वारावयवार्थ व्याचिख्यासुरिदमाह नि०- फड्डा य असंखिज्जा, संखेज्जा यावि एगजीवस्स / एकप्फड्डवओगे, नियमा सव्वत्थ उवउत्तो॥६०॥ / 0 असंख्येयभागवृद्धिर्वा संख्येयभागवृद्धिर्वा संख्येयगुणवृद्धिर्वा असंख्येयगुणवृद्धिर्वा (प्रज्ञापनायां)। 0 द्विविधा। 0 अनन्तभागगुणवृद्धिहानी द्रव्ये, पर्यायेषु षट्स्थानगा वृद्धिर्हानिर्वा। स्वपर्याया। 7 फड्डाइ। पीठिका ०.१ज्ञानपञ्चकरूपा नन्दी , नियुक्ति: 59 द्रव्यादिषु वृद्धिहानी। नियुक्तिः 60-61 स्पर्धकाः, अनुगामि (3) प्रतिपात्यादयः (3) / 77