SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ पीठिका श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 75 // भिधीयते, अयं भावार्थः- तप्राकारादिरवधिर्यवनालकाकारपर्यन्तो यथासंख्यं नारकभवनपति-व्यन्तरज्योतिष्ककल्पोपपन्नकल्पातीतग्रैवेयकानुत्तरसुराणां सर्वकालनियतोऽवसेयः, तिर्यग्नराणां भेदेन नानाविधाभिधानाद्, आह च-तिर्यञ्चश्च मनुष्याश्च तिर्यग्मनुष्याः तेषामवधिः नानाविधसंस्थानसंस्थितो- नानाविधसंस्थितः, संस्थानशब्दलोपात्, स्वयंभूरमणजलधिनिवासिमत्स्यगणवत्, अपितु तत्रापि वलयं निषिद्धं मत्स्यसंस्थानतया, अवधिस्तु तदाकारोऽपीति भणितः उक्तः अर्थतस्तीर्थकरैः सूत्रतो गणधरैरिति, अयं च भवनव्यन्तराणां ऊर्ध्वं बहुर्भवति, अवशेषाणां तु सुराणामधो, ज्योतिष्कनारकाणांतु तिर्यक्, विचित्रस्तु नरतिरश्चामिति गाथार्थः॥५५॥ उक्तं संस्थानद्वारम्, साम्प्रतमानुगामुकद्वारार्थप्रचिकटयिषयेदमाह - नि०- अणुगामिओ उ ओही, नेरइयाणं तहेव देवाणं। अणुगामी अणणुगामी, मीसो य मणुस्सतेरिच्छे // 56 // अनुगमनशील आनुगामुकः, लोचनवद्, तुशब्दस्त्वेवकारार्थः, स चावधारणे, आनुगामुक एव अवधिः, केषामित्यत आह- नरान् कायन्तीति नरका:- नारकाश्रयाः तेषु भवा नारका इति, तेषां नारकाणाम्, तथैव आनुगामुक एव, दीव्यन्तीति देवास्तेषामिति / तथा आनुगामुकः, अननुगमनशीलोऽननुगामुकः स्थितप्रदीपवत्, तथा एकदेशानुगमनशीलो मिश्रः, देशान्तगतपुरुषैकलोचनोपघातवत्, चशब्दः समुच्चयार्थः, मिश्रश्च, मनुष्याश्च तिर्यञ्चश्च मनुष्यतिर्यञ्चस्तेषु मनुष्यतिर्यक्षु योऽवधिः स एवंविधस्त्रिविध इति गाथार्थः ॥५६॥व्याख्यातमानुगामुकद्वारम्, इदानीमवस्थितद्वारावयवार्थप्रतिपादनाय गाथाद्वयमाह नि०- खित्तस्स अवट्ठाणं, तित्तीसंसागरा उकालेणं / दव्वे भिण्णमुहत्तो, पज्जवलंभे य सत्तट्ठ॥५७॥ (r) आ०। 0 1 0 अणुगामि। 0 अनु। 7 नानु०। 0 स एवावधि०। 0 उक्तमानुगामुकद्वारमधुनाऽवस्थितद्वारमाह। ०.१ज्ञानपञ्चकरूपा नन्दी , नियुक्ति: 55 स्तिबुकाद्या अवधेराकाराः। नियुक्ति: 56 देवनारकयोरनुगामी, शेषयोस्त्रिधा। // 75 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy