________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ पीठिका ०.१ज्ञानपञ्चकरूपा नन्दी, नियुक्तिः 54-55 स्तिबुकाद्या अवधेराकाराः। // 74 // प्रतिपातिस्वरूपाभिधानमदोषायैवेति गाथार्थः॥५३॥उक्त क्षेत्रपरिमाणद्वारम्, साम्प्रतं संस्थानद्वारं व्याचिख्यासयेदमाह नि०-थिबुयायार जहण्णो, वट्टो उक्कोसमायओ किंची। अजहण्णमणुक्कोसोय खित्तओणेगसंठाणो॥५४॥ स्तिबुक उदकबिन्दुः तस्येवाकारो यस्यासौ स्तिबुकाकारः, जघन्योऽवधिः। तमेव स्पष्टयन्नाह- वृत्तः सर्वतो वृत्त इत्यर्थः, पनकक्षेत्रस्य वर्तुलत्वात् / तथा उत्कृष्ट आयतः प्रदीर्घः किञ्चित् मनाक् वह्निजीवश्रेणिपरिक्षेपस्य स्वदेहानुवृत्तित्वात्, तथा अजघन्योत्कृष्टश्च न जघन्यो नाप्युत्कृष्टः अजघन्योत्कृष्ट इति। चशब्दोऽवधारणे, अजघन्योत्कृष्ट एव, क्षेत्रतोऽनेकसंस्थानः अनेकानि संस्थानानि यस्यासावनेकसंस्थान इति गाथार्थः॥ 54 // एवं तावज्जघन्येतरावधिसंस्थानमभिहितम्, साम्प्रतं विमध्यमावधिसंस्थानाभिधित्सयाऽऽह नि०-तप्पागारे 1 पल्लग 2 पडहग 3 झल्लरि 4 मुइंग 5 पुप्फ 6 जवे 7 / तिरियमणुएसु ओही, नाणाविहसंठिओ भणिओ॥५५॥ तप्रः उडुपकः तस्येवाकारो यस्यासौ तप्राकारः,तथा पल्लको नाम लाटदेशे धान्यालयः, आकारग्रहणमनुवर्त्तते, तस्येवाकारो यस्यासौ पल्लकाकारः, एवमाकारशब्दः प्रत्येकमभिसम्बन्धनीयः इति, पटह एव पटहकः- आतोद्यविशेषः, तथा चौवनद्धा विस्तीर्णवलयाकारा झल्लरी आतोद्यविशेषः एव, तथा ऊर्ध्वायतोऽधो विस्तीर्ण उपरि च तनुः, मृदङ्गः आतोद्यविशेष एव। पुप्फेति सूचनात्सूत्र इतिकृत्वा पुष्पशिखावलिरचिता चङ्गेरी पुष्पचङ्गेरी परिगृह्यते, यव इति यवनालकः, सच कन्याचोलको O विनेयानां बोधविशेषोत्पादनात् प्रस्तुतेऽवधिमाने। पदैकदेशे पदसमुदायोपचारात् जीवदेहेति, अन्यथा पञ्चमस्यानादेशस्याभ्युपगमापत्तेः, न चैवं स्वदेहेत्यनेन विरोधोऽपि / 0 नेरइय 1 भवण 2 वणयर 3 जोइस 4 कप्पालयाण 5 मोहिस्स। गेविज 6 णुत्तराण 7 य, हुतागिइओ जहासंखं // 1 // भवणवइवणयराणं उड्ड बहुओ अहोऽवसेसाणं / नारयजोइसिआणं, तिरिअं ओरालिओ चित्तो॥ 2 // (भाष्यकृत्कृते अव्याख्याते)। B // 74 //