________________ ०.१ज्ञानपश्वकरूपा श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 72 // देवाना भवानि ग्रैवेयकानि(णि) विमानानि, तत्र अधस्त्यमध्यमग्रैवेयकनिवासिनो देवा अधस्त्यमध्यमग्रैवेयकाः, ते हि षष्ठी पृथिवीं पीठिका तमोऽभिधानामवधिना पश्यन्तीति योगः, तथा सप्तमी च पृथिवीमुपरितनग्रैवेयकनिवासिन इति, तथासंभिन्नलोकनाडी चतुर्दशरज्ज्वात्मिकां कन्यकाचोलकसंस्थानामवधिना पश्यन्ति अनुत्तरविमानवासिनोऽनुत्तराः, तत्र एकेन्द्रियादयोऽपि भवन्ति तव्यवच्छेदार्थमाह- देवाः। एवं क्षेत्रानुसारतो द्रव्यादयोऽप्यवसेयाः इति गाथार्थ : // 50 // एवमधो वैमानिकावधिक्षेत्रप्रमाणं नियुक्तिः प्रतिपाद्य साम्प्रतं तिर्यगूर्ध्वं च तदेव दर्शयन्नाहनि०- एएसिमसंखिज्जा, तिरियं दीवा यसागराचेव। बहुअअरं उवरिमगा, उर्ल्ड सगकप्पथूभाई॥५१॥ मवधिः। एतेषां शक्रादीनाम्, संख्यायन्त इति संख्येयाः न संख्येया असंख्येयाः, तिर्यग्, द्वीपाश्च- जम्बूद्वीपादयः, सागराश्च लवणसागरादयः क्षेत्रतोऽवधिपरिच्छेद्यतया अवसेयाः इति वाक्यशेषः, तथा उक्तलक्षणात्- असंख्येयद्वीपोदधिमानात् क्षेत्रात्ल बहुतरम्, उपरिमा एव उपरिमका उपर्युपरिवासिनो देवाः, खल्ववधिना क्षेत्रं पश्यन्तीति वाक्यशेषः, तथा ऊर्ध्वंस्वकल्पस्तूपाद्येवल यावत् क्षेत्रं पश्यन्ति, आदिशब्दाद् ध्वजादिपरिग्रहः इति गाथार्थः / / 51 // इत्थं वैमानिकानां अवधिक्षेत्रमानमभिधाय इदानीं सामान्यतो देवानां प्रतिपादयन्नाह नि०- संखेजजोयणा खलु, देवाणं अद्धसागरे ऊणे / तेण परमसंखेजा, जहण्णयं पंचवीस तु // 52 // संख्येयानि च तानियोजनानि चेति विग्रहः,खलुशब्दस्त्वेवकारार्थः, सचावधारणे, अस्य चोभयथा सम्बन्धमुपदर्शयिष्यामः देवानां अर्धसागरे इति अर्धसागरोपमेन्यूने आयुषि सति संख्येययोजनान्येव अवधिक्षेत्रमिति / अर्धसागरोपमन्यून एव आयुषि Oआध०। 0 प्रमाणमवधेः। 0 उद्धं च सकप्प० / 0 शक्राद्युपलक्षितानां तत्तत्कल्पवासिसामानिकादीनामित्युक्तमेव प्राक् / 7 पण्णवीसं। // 72