SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ अरूपि श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 69 // एतदुक्तं भवति-रूपिद्रव्यानुगतं लोकमात्रासंख्येयखण्डोत्सर्पिण्यवसर्पिणीलक्षणं क्षेत्रकालद्वयं लभते, न केवलम् पीठिका त्वात्तस्य रूपिद्रव्यनिबन्धनत्वाच्चावधिज्ञानस्येति गाथार्थः॥४५॥एवं तावत् पुरुषानधिकृत्य क्षायोपशमिकः खलु अनेक ०.१ज्ञान पञ्चकरूपा प्रकारोऽवधिरुक्तः, साम्प्रतं तिरश्चोऽधिकृत्य प्रतिपिपादयिषुराह नन्दी, नि०- आहारतेयलंभो, उक्कोसेणं तिरिक्खजोणीसु / गाउय जहण्णमोही, नरएसु उजोयणुक्कोसो॥४६॥ नियुक्ति: 46 नारकतिरतत्राहारतेजोग्रहणाद् औदारिकवैक्रियाहारकतेजोद्रव्याणि गृह्यन्ते, ततश्चाहारश्च तेजश्च आहारतेजसी तयोर्लाभ इति समासः, श्वोरवधिः। लाभः प्राप्तिः परिच्छित्तिरित्यनर्थान्तरम्, इदमत्र हृदयं- तिर्यग्योनिषु योनियोनिमतामभेदोपचारात् तिर्यग्योनिकसत्त्वविषयो योऽवधिः तस्य द्रव्यतः खलु आहारतेजोद्रव्यपरिच्छेद उत्कृष्टत उक्तः, इत्थं द्रव्यानुसारेणैव क्षेत्रकालभावाः परिच्छेद्यतया , विज्ञेया इति / इदानीं भवप्रत्ययावधिस्वरूपमुच्यते, स च सुरनारकाणामेव भवति, तत्र प्रथममल्प इतिकृत्वा नारकाणां प्रतिपाद्यत इति, अत आह- क्षेत्रतो गव्यूतं परिच्छिनत्ति जघन्येनावधिः, क्व?- नरान् कायन्तीति नरकाः, कै गै रै शब्दे इतिधातुपाठात् नरान् शब्दयन्तीत्यर्थः, इह च नरका आश्रयाः, आश्रयाश्रयिणोरभेदोपचारात्, नरकेषु तु योजनमुत्कृष्ट इत्याह, एतदुक्तं भवति-नारकाधारो योऽवधिः असौ उत्कृष्टो योजनं परिच्छिनत्ति क्षेत्रतः, इत्थं क्षेत्रानुसारेण द्रव्यादयस्तु अवसेया इति गाथार्थः॥४६॥एवं नारकजातिमधिकृत्य जघन्येतरभेदोऽवधिः प्रतिपादितः, साम्प्रतंरत्नप्रभादिपृथिव्यपेक्षया उत्कृष्टेतरभेदमभिधित्सुराह // 69 // | 0 अरूपित्वात् रूपिविषयश्चावधिरिति च निर्णीतमनेकशः। 0 क्षेत्रकालद्वयस्य। 0 मनुष्यान्, इत्यर्थः, परमोहिनाणविओ, केवलमंतोमुहुत्तमित्तेणेति (वि. 689) वचनात् परमावधेरा अन्तर्मुहूर्तात्केवलोत्पत्तिः, केवलं च नरगतावेव। 0 चारित्रतपआदिगुणहेतुत्वात्। 9 य 2-4-5 /
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy