________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ पञ्चकरूपा // 68 // वगाहिग्रहणे सत्यपि शेषविशेषोपदर्शनमदोषायैवेति। अथवा एकप्रदेशावगाहिग्रहणात् परमाण्वादिग्रहणं कार्मणं यावत्, पीठिका तदुत्तरेषांचागुरुलघ्वभिधानात्, चशब्दात् गुरुलघूनां चौदारिकादीनामित्येवं सर्वपुद्गलविशेषविषयत्वमाविष्कृतं भवति, ०.१ज्ञानतथा चास्यैव नियमार्थं 'रूपगतं लभते सर्वं' इत्येतद्वक्ष्यमाणलक्षणमदुष्टमेवेति, एतदेव हि सर्वं रूपगतम्, नान्यद् इति, नन्दी , अलं प्रसङ्गेनेति गाथार्थः॥४४॥ एवं परमावधेर्द्रव्यमङ्गीकृत्य विषय उक्तः, साम्प्रतं क्षेत्रकालावधिकृत्योपदर्शयन्नाह- नियुक्ति: 45 नि०- परमोहि असंखिज्जा, लोगमित्ता समा असंखिज्जा / रूवगयं लहइ सव्वं, खित्तोवमिअंअगणिजीवा // 45 // परमावधे द्रव्यक्षेत्रपरमश्चासाववधिश्च परमावधिः, अवध्यवधिमतोरभेदोपचाराद् असौ परमावधिः क्षेत्रतः असंख्येयानि लोकमात्राणि, कालभावाः। खण्डानीति गम्यते, लभत इति सम्बन्धः, कालतस्तु समाः उत्सर्पिण्यवसर्पिणीरसंख्येया एव लभते, तथा द्रव्यतो रूपगतं मूर्त्तद्रव्यजातमित्यर्थः, लभते पश्यति सर्वंपरमाण्वादिभेदभिन्नं पुद्गलास्तिकायमेवेति, भावतस्तु वक्ष्यमाणाँस्तत्पर्यायान् इति। यदुक्तं असंख्येयानि लोकमात्राणि खण्डानि परमावधिः पश्यतीति' तत्क्षेत्रनियमनायाह- उपमानं उपमितम्, भावे निष्ठाप्रत्ययः, क्षेत्रस्योपमितं क्षेत्रोपमितम्, एतदुक्तं भवति-उत्कृष्टावधिक्षेत्रोपमानम्, अग्निजीवाः प्रागभिहिता एवेति, आह- 'रूपगतं लभते सर्वं' इत्येतदनन्तरगाथायामर्थतोऽभिहितत्वात् किमर्थं पुनरुक्तमिति, अत्रोच्यते, उक्तः परिहारः, अथवा अनन्तरगाथायां 'एकप्रदेशावगाढं' इत्यादि परमावधेर्द्रव्यपरिमाणमुक्तम्, इह तु रूपगतं लभते सर्वं' इति क्षेत्रकालद्वयविशेषणम्, 0 द्वितीयप्रश्नसमाधानाय। ॐ ध्रुववर्गणादीनामचित्तमहास्कन्धान्तानाम् / ॐ ग्रहणम्। 0 आदिना वैक्रियाहारकतैजसग्रहः। ॐ विशेषा भेदाः प्रकाराः। OR // 68 // परमावधेः। ॐ विषयस्य। पूर्वेण सिद्धत्वात्। पूर्वगाथादर्शितमेकप्रदेशावगाढादि। ®उत्तरः। (r) नास्मादन्यत् रूपगतमिति नियमनायेत्येवंरूपः। (r) विधिनियमयोर्विधिरेव ज्यायान् इति न्यायमपेक्ष्य विधेर्बलीयस्त्वाख्यानायाह- अथवेत्यादि /