________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 65 // नन्दी, वधेः। सङ्ख्यायत इति संख्येयः, मनसः सम्बन्धि योग्यं वा द्रव्यं मनोद्रव्यं तस्मिन् मनोद्रव्ये इति मनोद्रव्यपरिच्छेदके अवधौ, पीठिका क्षेत्रतः सङ्खयेयो लोकभागः, कालतोऽपि सङ्खयेय एव, पलियस्स पल्योपमस्य बोद्धव्यो विज्ञेयः, प्रमेयत्वेनेति, एतदुक्तं ०.१ज्ञान पशकरूपा भवति- अवधिज्ञानी मनोद्रव्यं पश्यन् क्षेत्रतो लोकस्य सङ्खयेयभागं कालतश्च पल्योपमस्य जानीते इति, तथा सङ्ख्येया 8 लोकपल्योपमभागाः कर्मद्रव्ये इति कर्मद्रव्यपरिच्छेदकेऽवधौ प्रमेयत्वेन बोद्धव्या इति वर्त्तते, अयं भावार्थः- कर्मद्रव्यं नियुक्तिः पश्यन् लोकपल्योपमयोः पृथक् पृथक् सङ्खयेयान् भागान् जानीते, लोके इति चतुर्दशरज्ज्वात्मकलोकविषयेऽवधौ क्षेत्रतः 42-43 द्रव्यक्षेत्रकालकालतःस्तोकन्यून पल्योपमं प्रमेयत्वेन बोद्धव्यं इति वर्त्तते, इदमत्र हृदयं-समस्तं लोकं पश्यन् क्षेत्रतः कालतः देशोनं प्रतिबन्धोऽपल्योपमं पश्यति, द्रव्योपनिबन्धन क्षेत्रकालाधिकारे प्रक्रान्ते केवलयोर्लोकपल्योपमक्षेत्रकालयोर्ग्रहणं अनर्थकमिति चेत्, न, इहापि सामर्थ्यप्रापितत्वाद् द्रव्योपनिबन्धनस्य, अत एव च तदुपर्यपि ध्रुववर्गणादि द्रव्यं पश्यतः क्षेत्रकालवृद्धिरनुमेयेति | गाथार्थः // 42 // तेजोमयं तैजसम्, शरीरशब्दः प्रत्येकमभिसम्बध्यते, तैजसशरीरे तैजसशरीरविषयेऽवधौ क्षेत्रतोऽसङ्खयेया द्वीपसमुद्राः प्रमेयत्वेन बोद्धव्या इति, कालश्च असङ्ख्येय एव, मिथ्यादर्शनादिभिः क्रियत इति कर्म-ज्ञानावरणीयादि तेन निर्वृत्तं तन्मयं वा कार्मणम्, शीर्यते इति शरीरं, कार्मणंच तच्छरीरंचेति विग्रहः तस्मिन्नपि तैजसवद्वक्तव्यम्, एवं तैजसद्रव्यविषये चावधौ भाषाद्रव्यविषये च क्षेत्रतो बोद्धव्या विज्ञेयाः, सङ्ख्यायन्त इति सङ्ख्येया न सङ्खयेया असङ्ख्येयाः, द्वीपाश्च समुद्राश्च Oपरिणतं तथात्वेन / 0 आकाशस्थितम् / 0 नास्तीदम् 3 / 0 स्तोकान्यूनं 1-5-6 / ७०पनिबन्धेन 5-6 / 0 पूर्व क्षेत्रकालयोवृद्धिव्याप्तिर्दर्शिता परं द्रव्येण तां दर्शनाय प्रक्रान्तं प्रकरणम्। 0 द्रव्यव्याप्नेः, क्षेत्रकालवृद्धौ द्रव्याणां अवश्यं वृद्धेः सामर्थ्यप्रापणम्, काले चउण्ह वुड्डीत्यनेन निर्णीता च सा प्राक्। 03 सामर्थ्यप्रापितत्वात्, द्रव्यपरिच्छेदवृद्धेः क्षेत्रकालवृद्धिनियमः, सफलं च त्रयोपनिबन्धप्रकरणमेवम् / ॐ वक्ष्यति विशेषोऽसङ्ग्येयगतोऽग्रे अत्र चासङ्ख्येयेत्यादिना / 8 S // 65 //