SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 63 // इति प्रदेशवृद्ध्या ततोऽनन्ता एवाध्रुववर्गणा अनन्ता भवन्ति,अध्रुवा इति अशाश्वत्यः, कदाचिन्न सन्त्यपीत्यर्थः, ततः शून्या पीठिका इति सूचनात्सूत्रमितिकृत्वा शून्यान्तरवर्गणाः परिगृह्यन्ते, शून्यान्यन्तराणि यासांताः शून्यान्तराः शून्यान्तराश्च ता वर्गणाश्चेति ०.१ज्ञान पञ्चकरूपा समासः, एतदुक्तं भवति- एकोत्तरवृद्ध्या व्यवहितान्तरा इति, ता अपि चानन्ता एव, तथा इतरेति इतरग्रहणादशून्यान्तराः नन्दी, परिगृह्यन्ते, न शून्यानि अन्तराणि यासांता अशून्यान्तराः, अशून्यान्तराश्च ता वर्गणाश्चेति विग्रहः, अशून्यान्तरवर्गणा अव्य- नियुक्तिः 39-40 वहितान्तरा इत्यर्थः, ता अपि च प्रदेशोत्तरवृद्ध्या खल्वनन्ता एव भवन्ति, ततः चतुरिति चतस्रः ध्रुवाश्च ता अनन्तराश्च औदारिकादिध्रुवानन्तराः प्रदेशोत्तरा एव वर्गणा भवन्ति, ततः तनुवर्गणाश्च तनुवर्गणा इति, किमुक्तं भवति!-भेदाभेदपरिणामाभ्यामौदारिका- वर्गणाः (19) / दियोग्यताऽभिमुखा इति, अथवा मिश्राचित्तस्कन्धद्वययोग्यास्ताश्चतस्र एव भवन्ति, ततो मिश्र इति मिश्रस्कन्धो भवति, सूक्ष्म एवेषद्वादरपरिणामाभिमुखो मिश्रः, तथा इति आनन्तर्ये अचित्त इति अचित्तमहास्कन्धः, सच विश्रसापरिणामविशेषात् केवलिसमुद्धातगत्या लोकमापूरयन्नुपसंहरंश्च भवतीति / आह-अचित्तत्वाव्यभिचारात्तस्याचित्तविशेषणानर्थक्यमिति, न, केवलिसमुद्धातसचित्तकर्मपुद्गललोकव्यापिमहास्कन्धव्यवच्छेदपरत्वात् विशेषणस्येति, अयमेव सर्वोत्कृष्टप्रदेश इति केचिद् , व्याचक्षते, न चैतदुपपत्तिक्षमम्, यस्मादुत्कृष्टप्रदेशोऽवगाहनास्थितिभ्यां असंख्येयभागहीनादिभेदादचतुःस्थानपतित उक्तः, तथा चोक्तं-उक्कोसपएसिआणं भंते! केवइआ पज्जवा पण्णत्ता?, गोयमा! अणन्ता, सेकेणट्टेणं भंते! एवं वुच्चइ?, गोयमा! उक्कोसपएसिए ®सूत्रं सूचनकृदिति सूत्रलक्षणात्। तस्यास्त्रुटिसंभवे सत्येव भिन्नवर्गणारम्भः, अन्यद्वा किश्चिद्वर्णादिपरिणामवैचित्र्यं तदारम्भे कारणम् / 0 केवलिसमुद्धातावसरे | प्रतिप्रदेशं आत्मगृहीतत्वात् सचित्तता कर्मपुद्गलानाम्, चतुर्थसमयापेक्षया लोकव्यापकता, निस्सम्बद्धत्वाभावान्महास्कन्धता। अचित्तमहास्कन्धः।७ सङ्ख्येयभागा8 सङ्ख्येयगुणसङ्घयेयगुणग्रहः। 0 उत्कृष्टप्रदेशिकानां भदन्त! कियन्तः पर्यवाः प्रज्ञप्ताः?, गौतम! अनन्ताः, तत्केनार्थेन भदन्त! एवमुच्यते?, गौतम! उत्कृष्टप्रदेशिक // 63 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy