SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ पीठिका श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 62 // ०.१ज्ञानपञ्चकरूपा नन्दी, | नियुक्तिः 39-40 औदारिकादिवर्गणाः (19) / लङ्घय तथापरिणामयुक्ता वैक्रियग्रहणयोग्या भवन्ति, ता अपिच प्रदेशवृद्ध्या प्रवर्धमाना अनन्ता एवेति तावद् यावद् एकादिप्रचुरपरमाणुनिवृत्तत्वात् सूक्ष्मपरिणामयुक्तत्वाच्च वैक्रियस्याग्रहणयोग्या भवन्ति, एवं प्रदेशवृद्ध्या प्रवर्धमानाः खल्वग्रहणयोग्या अप्यनन्ता एवेति, ताश्चाहारकस्य अल्पपरमाणुनिवृत्तत्वाद् बादरपरिणामोपेतत्वाच्च अग्रहणयोग्या एवेति, एवमाहारकस्य तैजसस्य भाषायाः आनापानयोर्मनसः कर्मणश्च अयोग्ययोग्यायोग्यानां वर्गणानां प्रदेशवृद्ध्युपेतानामनन्तानां त्रयं त्रयमायोजनीयम् / आह-कथं पुनरिदं एकैकस्यौदारिकादेस्त्रयं त्रयंगम्यत इति, उच्यते, तैजसभाषाद्रव्यान्तरवर्युभयायोग्यद्रव्यावधिगोचराभिधानात् / अथ अयं द्रव्यवर्गणानां क्रमः, तत्र वर्गणा वर्गो राशिरिति पर्यायाः, तथा विपर्यासतो विपर्यासेन क्षेत्रे इति क्षेत्रविषयो वर्गणाक्रमो वेदितव्यः, एतदुक्तं भवति- एकप्रदेशावगाहिनां परमाणूनां स्कन्धानां चैका वर्गणा, तथा द्विप्रदेशावगाहिनांस्कन्धानामेव द्वितीया वर्गणा, एवमेकैकप्रदेशवृद्ध्या संख्येयप्रदेशावगाहिनां संख्येया असंख्येयप्रदेशावगाहिनांचासंख्येयाः, ताश्च प्रदेशप्रदेशोत्तराः खल्वसंख्येया विलय कर्मणो योग्यानामसंख्येया वर्गणा भवन्ति, पुनःप्रदेशवृद्ध्या तस्यैवायोग्यानां असंख्येया इति, अयोग्यत्वंचाल्पपरमाणुनिवृत्तत्वात् प्रभूतप्रदेशावगाहित्वाच्च, मनोद्रव्यादीनामप्येवमेवायोग्ययोग्यायोग्यलक्षणं त्रयंत्रयमायोजनीयमिति / एवं सर्वत्र भावना कार्या, परं परं सूक्ष्म प्रदेशतोऽसंख्येयगुणं (प्राक्तैजसात्) इति (तत्त्वार्थे अ० 2 सूत्रे 38-39) वचनात्, कालतो भावतश्च वर्गणा दिग्मात्रतो दर्शिता एवेति गाथार्थः // 39 // तत्रानन्तरगाथायां कर्मद्रव्यवर्गणाः प्रतिपादिताः, साम्प्रतं प्रदेशोत्तरवृद्ध्या तदग्रहणप्रायोग्याः प्रदर्श्यन्ते-क्रियत इति कर्म, कर्मण उपरि कर्मोपरि, ध्रुवेति- ध्रुववर्गणा अनन्ता भवन्ति, ध्रुववर्गणा इति ध्रुवा नित्याः सर्वकालावस्थायिन्य इति भावार्थः, इतरा (c) अतिप्रचुर। 0 ०युक्तत्वात्। 0 आनपानयोः 5 / 7 तथा सं 0 4-5-6 / 7 द्वयोरभिधानं प्रसङ्गात्। 0 अष्टानां वर्गणानामन्त्ये तद्भावात् /
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy