SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् पीठिका ०.१ज्ञानपञ्चकरूपा | नन्दी , | नियुक्तिः 39-40 औदारिकादिवर्गणाः (19) भाग-१ // 61 // कर्बुरादिभेदभिन्नानां गवां प्रतिगोपं विभिन्ना वर्गणाः खल्ववस्थापितवान् इत्येष दृष्टान्तः, अयमर्थोपनयः- इह गोपपतिकल्पस्तीर्थकृत् गोपकल्पेभ्यः शिष्येभ्यो गोरूपसदृशं पुद्गलास्तिकायं परमाण्वादिवर्गणाविभागेन निरूपितवानिति अलं प्रसङ्गेन, पदार्थः प्रतिपाद्यते- तत्र औदारिकग्रहणाद् औदारिकशरीरग्रहणयोग्या वर्गणाः परिगृहीताः, ताश्चैवमवगन्तव्याःइह वर्गणाः सामान्यतश्चतुर्विधा भवन्ति, तद्यथा- द्रव्यतः क्षेत्रतः कालतः भावतश्च, तत्र द्रव्यत एकप्रदेशिकानां यावदनन्तप्रदेशिकानाम्, क्षेत्रत एकप्रदेशावगाढानांयावदसंख्येयप्रदेशावगाढानाम्, कालत एकसमयस्थितीनांयावदसंख्येयसमयस्थितीनाम्, भावतस्तावत् परिस्थूरन्यायमङ्गीकृत्य कृष्णानां यावत् शुक्लानां ५सुरभिगन्धानांदुरभिगन्धानांच 2, तिक्तरसानां यावन्मधुररसानां 5, मृदूनां यावद्रूक्षाणां 8 गुरुलघूनामगुरुलघूनां च, एवमेता द्रव्यवर्गणाद्या वर्गणाश्चतुर्विधा भवन्ति, प्रकृतोपयोगः प्रदर्श्यते- तत्र परमाणूनामेका वर्गणा, एवं द्विप्रदेशिकानामप्येका, एवमेकैकपरमाणुवृद्ध्या संख्येयप्रदेशिकानां संख्येया वर्गणा असंख्येयप्रदेशिकानां चासंख्येया:स्ततोऽनन्तप्रदेशिकानां अनन्ताः खल्वग्रहणयोग्या विलय ततश्च विशिष्टपरिणामयुक्ता औदारिकशरीरग्रहणयोग्याः खल्वनन्ता एवेति, ता अपिचोल्लङ्घय प्रदेशवृद्ध्या प्रवर्धमानास्ततस्तस्यैवाग्रहणयोग्या अनन्ता इति, ताश्च प्रभूतद्रव्यनिर्वृत्तत्वात् सूक्ष्मपरिणामोपेतत्वाच्च औदारिकस्याग्रहणयोग्या इति, वैक्रियस्यापि चाल्पपरमाणुनिर्वृत्तत्वाद्बादरपरिणामयुक्तत्वाच्चाग्रहणयोग्या एव ता इति, पुनः प्रदेशवृद्ध्या प्रवर्धमानाः खल्वनन्ता एवो ®समुदायान्। 0 कुचिकर्णधनपतिः। 0 गोरूपाणि धेनवः / ॐ अवयवे समुदायोपचारात् प्रकरणाद्वा / ॐ परमाणूनामपि प्रकृष्टदेशत्वात् / 0 लोकाकाशेऽवगाहनात् तस्य चैतावत्प्रमाणत्वात् / ॐ अनन्तसमयान् यावदवस्थानाभावात् / स्वस्वस्थान एकगुणादिनाऽनन्तभेदवत्त्वात् प्रत्येकम् / ॐ द्वित्रि०। द्वितीयाबहुवचनम्, एताश्चौदारिकस्यैवायोग्या इति / ®औदारिकपरिणमनयोग्यतारूपेति / (r) औदारिकशरीरतया परिणमनीयाः। (r) वर्धमानाः 2-4 / // 61 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy