________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक पीठिक ०.१ज्ञानपशकरूपा नन्दी, वृत्तियुतम् भाग-१ // 60 // ह- प्रस्थापकः प्रस्थापको नाम अवधिज्ञानप्रारम्भकः, किंविशिष्टं तदिति, अत आह- गुरुलध्वगुरुलघु गुरु च लघुच तथा न गुरुलघु अगुरुलघु, एतदुक्तं भवति-गुरुलघुपर्यायोपेतं गुरुलघु अगुरुलघुपर्यायोपेतं चागुरुलघु इति / तत्र यत्तैजसद्रव्यासन्नं तदुरुलघु, यत्पुनर्भाषाद्रव्यासन्नं तदगुरुलघु, तदपि च अवधिज्ञानं प्रच्यवमानंसत्पुनः तेनैव द्रव्येणोपलब्धेन सता निष्ठां याति, प्रच्यवतीत्यर्थः / तत्र अपिशब्दात् यत्प्रतिपाति तत्रायंक्रमो, न पुनरवधिज्ञानं प्रतिपात्येव भवतीत्यर्थः, नियुक्तिः 39-40 चशब्दस्त्वेवकारार्थः, स चावधारणे, तस्य चैवं प्रयोगः- तदेवावधिज्ञानमेवं प्रच्यवते, न शेषज्ञानानीति गाथार्थः॥ 38 // औदारिकादिआह-कियत्प्रदेशं तद्रव्यम्, यत् तैजसभाषाद्रव्याणामपान्तरालवर्तिजघन्यावधिप्रमेयमित्याशङ्कय तद्धि परमाण्वादिक्रमो- वर्गणा: (19) / पचयाद् औदारिकादिवर्गणानुक्रमतः प्रतिपाद्यमिति, अतस्तत्स्वरूपाभिधित्सया गाथाद्वयमाह नि०-ओरालविउव्वाहारतेअभासाणपाणमणकम्मे / अह दव्ववग्गणाणं, कमो विवजासओ खित्ते // 39 // नि०-कम्मोवरिं धुवेयरसुण्णेयरवग्गणा अणंताओ। चउधुवणंतरतणुवग्गणा य मीसो तहाऽचित्तो॥४०॥ आह-औदारिकादिशरीरप्रायोग्यद्रव्यवर्गणाः किमर्थं प्ररूप्यन्ते इति, उच्यते, विनेयानामव्यामोहार्थम्, तथा चोदाहरणमत्र-इह भरतक्षेत्रे मगधाजनपदे प्रभूतगोमण्डलस्वामी कुचिकर्णो नाम धनपतिरभूत्, सच तासांगवमतिबाहुल्यात् सहस्रादिसंख्यामितानां पृथक् पृथगनुपालनार्थ प्रभूतान् गोपांश्चक्रे, तेऽपिच परस्परसंमिलितासु तासु गोष्वात्मीयाः सम्यगजानानाः सन्तोऽकलहयन्, तांश्च परस्परतो विवदमानानुपलभ्य असौ तेषामव्यामोहार्थं अधिकरणव्यवच्छित्तये च रक्तशुक्लकृष्ण-1 ®समुच्चयाय / (r) प्रच्यवत इत्यर्थः 2-5 / 0 हीयमानम्। 0 अवधिः। 9 तैजसभाषाऽयोग्यद्रव्यान्तदर्शनानन्तरप्रच्युतिरूपेण। 0 मत्यादीनि। 0. णुपाण10 गाः। 0 कलहः / // 60 //