________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 56 // अङ्गुलं चावलिका च अङ्गुलावलिके तयोरङ्गुलावलिकयोः, भागं अंशं असंख्येयं पश्यति अवधिज्ञानी, एतदुक्तं भवति- पीठिका क्षेत्रमङ्गलासंख्येयभागमात्र पश्यन् कालतः आवलिकाया असंख्येयमेव भागं पश्यत्यतीतमनागतं चेति, क्षेत्रकालदर्शनं ०.१ज्ञान पञ्चकरूपा चोपचारेणोच्यते, अन्यथा हि क्षेत्रव्यवस्थितानि दर्शनयोग्यानि द्रव्याणि तत्पर्यायांश्च विवक्षितकालान्तरवर्तिनः पश्यति, नन्दी , न तु क्षेत्रकालौ, मूर्त्तद्रव्यालम्बनत्वात्तस्येति / एवं सर्वत्र भावना द्रष्टव्या, क्रिया च गाथाचतुष्टयेऽप्यध्याहार्या, तथा द्वयोः नियुक्तिः अङ्गलावलिकयोः संख्येयौ भागौ पश्यति, अङ्गलसंख्येयभागमात्रं क्षेत्रं पश्यन्नावलिकायाः संख्येयमेव भागं पश्यतीत्यर्थः, 32-35 अवधेः तथा अङ्गलं पश्यन् क्षेत्रतः आवलिकान्तः पश्यति, भिन्नामावलिकामित्यर्थः, तथा कालत: आवलिकां पश्यन् क्षेत्रतोऽङ्गल- क्षेत्रकालपृथक्त्वं पश्यति, पृथक्वं हि द्विप्रभृतिरा नवभ्यः इति प्रथमगाथार्थः॥ 32 // द्वितीयगाथाव्याख्या- हस्ते इति हस्तविषयः | प्रतिबन्धः (मध्यमः)। क्षेत्रतोऽवधिः कालतो मुहूर्तान्तः पश्यति, भिन्नं मुहूर्त्तमित्यर्थः, अवध्यवधिमतोरभेदोपचाराद् अवधिः पश्यतीत्युच्यते, तथा कालतो दिवसान्तो भिन्नं दिवसं पश्यन् क्षेत्रतो गव्यूतं इति गव्यूतविषयो बोद्धव्यः, तथा योजनविषयःक्षेत्रतोऽवधिः कालतो दिवसपृथक्त्वं पश्यति, तथा, पक्षान्तो भिन्नं पक्षं पश्यन् कालतः क्षेत्रतः पञ्चविंशति योजनानि पश्यतीति द्वितीयगाथार्थः॥ 33 / / तृतीयगाथा व्याख्यायते- 'भरते' इति भरतक्षेत्रविषये अवधौ कालतोऽर्धमास उक्तः, एवं जम्बूद्वीपविषये। क्षेत्रकालयोररूपित्वादवधेश्च रूपिविषयत्वादाह। 0 उपचाराभावेऽनिष्टतां दर्शयति इतः तस्येतीत्यन्तेन / विवक्षितेति / विवक्षितक्षेत्रस्थितद्रव्यपर्यायान्, कालज्ञानव्याख्यानायेदम् / अवधेः प्रत्यक्षत्वात् न साक्षात्पश्यतीति। न्यूनां समयादिना / अन्यत्र द्वितीयान्तं पदमिति कर्मतोपपत्तिः, अत्र तु सप्तम्यन्तत्वाद्धस्त-8 // 56 // प्रमाणक्षेत्रस्थितद्रव्यदर्शनसमर्थोऽवधिाह्य इत्युपचारहेतुः, अग्रेऽपीदृशे स्थले। 0 पक्षान्तः१-२10 अर्धमासशब्दस्य प्रथमान्तत्वात् नात्रोपचारेण व्याख्यानं हस्त इत्यत्रेव, किन्तु सतिसप्तम्यन्ततया /