SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ नन्दी , श्रीआवश्यक नि०- सव्वबहुअगणिजीवा, निरन्तरं जत्तियं भरिजासु। खित्तं सव्वदिसागं, परमोही खित्त निद्दिट्ठो॥३१॥ पीठिका नियुक्ति सर्वेभ्यो विवक्षितकालावस्थायिभ्योऽनलजीवेभ्य एव बहवः सर्वबहवः, न भूतभविष्यद्भ्यः, नापि शेषजीवेभ्यः, कुतः!, ०.१ज्ञानभाष्य पञ्चकरूपा श्रीहारि० असंभवात्, अग्नयश्च ते जीवाश्च अग्निजीवाः, सर्वबहवश्च तेऽग्निजीवाश्च सर्वबह्वग्निजीवाः, निरन्तरं इति क्रियाविशेषणं यावत् वृत्तियुतम् यावत्परिमाणं भृतवन्तो व्याप्तवन्तः क्षेत्रं आकाशम् , एतदुक्तं भवति- नैरन्तर्येण विशिष्टसूचीरचनया यावत् भृतवन्त इति / नियुक्ति: 31 भाग-१ उत्कृष्टावधि॥५४॥ भूतकालनिर्देशश्च अजितस्वामिकाल एव प्रायः सर्वबहवोऽनलजीवा भवन्ति अस्यामवसर्पिण्यां इत्यस्यार्थस्य ख्यापनार्थः, क्षेत्रम्। इदंचानन्तरोदितविशेषणं क्षेत्रमेकदिक्कमपि भवति, अत आह-सर्वदिक्कं अनेन सूचीपरिभ्रमणप्रमितमेवाह-परमश्चासाववधिश्च परमावधिः, क्षेत्रं अनन्तरव्यावर्णितं प्रभूतानलजीवमितमङ्गीकृत्य निर्दिष्टः क्षेत्रनिर्दिष्टः, प्रतिपादितो गणधरादिभिरिति, ततश्च पर्यायेण परमावधेरेतावत्क्षेत्रमित्युक्तं भवति / अथवा सर्वबह्वग्निजीवा निरन्तरं यावद् भृतवन्तः क्षेत्रं सर्वदिक्कं एतावति क्षेत्रे यान्यवस्थितानि द्रव्याणि तत्परिच्छेदसामर्थ्ययुक्तः परमावधिः क्षेत्रमङ्गीकृत्य निर्दिष्टो, भावार्थस्तु पूर्ववदेव, अयमक्षरार्थः / इदानीं साम्प्रदायिकः प्रतिपाद्यते-तत्र सर्वबह्वग्निजीवा बादराः प्रायोऽजितस्वामितीर्थकरकाले भवन्ति, तदारम्भकपुरुषबाहुल्यात्, सूक्ष्माश्चोत्कृष्टपदिनस्तत्रैवावरुध्यन्ते, ततश्च सर्वबहवो भवन्ति / तेषां च स्वबुद्ध्या षोढाऽवस्थानं कल्प्यते एकैकक्षेत्रप्रदेश एकैकजीवावगाहनया सर्वतश्चतुरस्रो घनः प्रथमम्, स एव जीवः स्वावगाहनया द्वितीयम्, एवं प्रतरोऽपि P Oभरिजंसु 1-4-5 / 0 अग्निशरीरावगाहनारचनया। 0 रूपान्तरेण / 0 अत्र पक्षे अनलजीवमितक्षेत्रस्थितद्रव्यपरिच्छेदशक्तिः / 7 मनुष्यार्थपरं पुरुषपदम् / RTO अनन्तानन्तास्ववसर्पिणीषु कस्मिंश्चिदेव द्वितीयतीर्थकरकाले एते, तदानींतना एवोत्कृष्टा बादरा ग्राह्याः। 7 बादरजीवमाने क्षिप्यन्त इति / एकैकस्मिन् प्रदेशे एकैकजीवस्थापनेनेत्यर्थः / 7 शरीरद्वारेत्यर्थः / // 54
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy