________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ पीठिका ०.१ज्ञानपञ्चकरूपा नन्दी, नियुक्ति: 29 अवधिनिक्षेपाः(७)। अवस्थितोऽवधिर्वक्तव्यः, द्रव्यादिषु कियन्तं कालं अप्रतिपतितः सन्नुपयोगतो लब्धितश्चावस्थितो भवति / तथा चलोऽवधिवक्तव्यः, चलोऽनवस्थितः, सच वर्धमानः क्षीयमाणो वा भवति / तथा तीव्रमन्दाविति द्वारं तीव्रो मन्दो मध्यमश्चावधिर्वक्तव्यः, तत्र तीव्रो विशुद्धः, मन्दश्चाविशुद्धः, तीव्रमन्दस्तूभयप्रकृतिरिति / प्रतिपातोत्पादाविति द्वारं एककाले द्रव्याद्यपेक्षया प्रतिपातोत्पादाववधेर्वक्तव्यौ॥२७॥ द्वितीयगाथाव्याख्या- तथा ज्ञानदर्शनविभङ्गा वक्तव्याः, किमत्र ज्ञानं? किं वा दर्शनं? को वा विभङ्गः? परस्परतश्चामीषां अल्पबहुत्वं चिन्त्यमिति। तथा देशद्वारं कस्य देशविषयः सर्वविषयो वाऽवधिर्भवतीति वक्तव्यम्। क्षेत्रद्वारं क्षेत्रविषयोऽवधिर्वक्तव्यः, सम्बद्धासम्बद्धसङ्घयेया सङ्खयेयापान्तराललक्षणक्षेत्रावधिद्वारेणेत्यर्थः / गतिरिति च अत्र इतिशब्द आद्यर्थे द्रष्टव्यः, ततश्च गत्यादि च द्वारजालमवधौ वक्तव्यमिति / तथा प्राप्तय॑नुयोगश्च कर्त्तव्यः, अनुयोगोऽन्वाख्यानम्, एवमनेन प्रकारेण एता अनन्तरोक्ताः प्रतिपत्तयः प्रतिपादनानि, प्रतिपत्तयः परिच्छित्तय इत्यर्थः, ततश्चावधिप्रकृतय एव प्रतिपत्तिहेतुत्वात् प्रतिपत्तय इत्युच्यन्त इति गाथाद्वयसमुदायार्थः // 28 // साम्प्रतमनन्तरोक्तद्वारगाथाद्वयाद्यद्वारव्याचिख्यासयेदमाह नि०-नाम ठवणादविए, खित्ते काले भवे य भावे य / एसोखलु निक्खेवो ओहिस्सा होइ सत्तविहो // 29 // तत्र नाम पूर्वं निरूपितम्, नाम च तदवधिश्च नामावधिः, यस्यावधिरिति नाम क्रियते, यथा मर्यादायाः / तथा स्थापना चासाववधिश्च स्थापनावधिः, अक्षादिविन्यासः / अथवा अवधिरेव च यदभिधानं वचनपर्यायःस नामावधिः, स्थापनावधिर्यः | खलु आकारविशेषः तत्तद्र्व्यक्षेत्रस्वामिनामिति / तथा द्रव्येऽवधिव्यावधिः, द्रव्यालम्बन इत्यर्थः / अथवाऽयं एकारान्तः 0 अवधेरेव 1-5 / (c) तद्द०१-२-३ /