SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ०.१ज्ञानपञ्चकरूपा श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 50 // चतुर्दशविधश्चासौ निक्षेपश्चेति समासः, तं अवधेः सम्बन्धिनम्, आमौषध्यादिलक्षणा प्राप्ता ऋद्धियैस्ते प्राप्तर्धयःतांश्च, इह पीठिका गाथाभङ्गभयाव्यत्ययः, अन्यथा निष्ठान्तस्य पूर्वनिपात एव भवति बहुव्रीहाविति, चशब्दः समुच्चयार्थः, वक्ष्ये अभिधास्य इति गाथार्थः // 26 // यदुक्तं 'चतुर्दशविधनिक्षेपं वक्ष्ये' इति, तं प्रतिपादयंस्तावद्द्वारगाथाद्वयमाह नन्दी, नि०- ओही 1 खित्तपरिमाणे, 2 संठाणे 3 आणुगामिए ४।अवट्टिए 5 चले 6 तिव्वमन्द 7 पडिवाउत्पयाइ 8 अ॥२७॥ नियुक्तिः नि०- नाण 9 दंसण 10 विन्भंगे 11, देसे 12 खित्ते 13 गई 14 इअ / इद्दीपत्ताणुओगे य, एमेआपडिवत्तिओ॥२८॥ 27-28 अवधौ __ तत्र अवध्यादीनि गतिपर्यन्तानि चतुर्दश द्वाराणि, ऋद्धिस्तु चसमुच्चितत्वात् पञ्चदशम् / अन्ये त्वाचार्या अवधिरित्येतत्पदंड क्षेत्रादि(१४) परित्यज्य आनुगामुकमनानुगामुकसहितं अर्थतोऽभिगृह्य चतुर्दश द्वाराणि व्याचक्षते, यस्मात् नावधिः प्रकृतिः, किं तर्हि!, प्रतिपत्तयः / अवधेरेव प्रकृतयः चिन्त्यन्ते, यतश्च प्रकृतीनामेव चतुर्दशधा निक्षेप उक्त इति / पक्षद्वयेऽपि अविरोध इति / तत्र अवधिरिति / अवधेर्नामादिभेदभिन्नस्य स्वरूपमभिधातव्यम्, तथा अवधिशब्दो द्विरावर्त्यते इति व्याख्यातमिति / तथा क्षेत्रपरिमाण इति क्षेत्रपरिमाणविषयोऽवधिर्वक्तव्यः, एवं संस्थानविषय इति। अथवा अर्थाद्विभक्तिपरिणाम इति द्वितीयैवेयम्, ततश्च अवधेर्जघन्यमध्यमोत्कृष्टभेदभिन्न क्षेत्रप्रमाणं वक्तव्यम् / तथा संस्थानमवधेर्वक्तव्यम् ।आनुगामुक इति द्वारं अनुगमनशील आनुगामुकः, सविपक्षोऽवधिर्वक्तव्यः, एकारान्तः शब्दः प्रथमान्त इतिकृत्वा, यथा कयरे आगच्छइ (उत्तरा०अ०१२ गा०६) इत्यादि। तथा / | 0 गए 4 / 0 इआ। 0 षड्विंशतितमगाथायां चउद्दसविहनिक्खेवं इड्डीपत्ते य इत्यत्र चस्योक्तसमुच्चयार्थत्वाचशब्दसमुच्चयनम्। 0 तत्रावध्यादीनीत्यत्र व्याख्यातमर्थतः, ततश्चाग्रेतनेषु अवधिपदयोजना, टिप्पनके अन्ये त्वाचार्या इत्यत्रेति व्याख्यातम्, अत्र वाऽऽवृत्तिस्तथा च प्रथमान्तता प्रकृतित्वे क्षेत्रपरिमाणादौ8 योज्यतयेति च। 9 अर्थवशात् 5-6 / 0 प्रतिपत्तिरित्यर्थः, अन्यमतापेक्षयाऽदः, व्याख्यानं चातः तन्मतसत्कम् / // 50 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy