SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ पीठिका श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 49 // संख्यातीताः तत्प्रकृतयः इति, तथा तैजसवाग्द्रव्यापान्तरालवय॑नन्तप्रदेशकाद् द्रव्यादारभ्य विचित्रवृद्ध्या सर्वमूर्तद्रव्याणि उत्कृष्टं विषयपरिमाणमुक्तम्, प्रतिवस्तुगतासंख्येयपर्यायविषयमानं च इति, अतः पुद्गलास्तिकायं तत्पर्यायाँश्चाङ्गीकृत्य ०.१ज्ञान पञ्चकरूपा ज्ञेयभेदेन ज्ञानभेदादनन्ताः प्रकृतय इति, आसां च मध्ये काश्चन अन्यतमाः भवप्रत्यया भवन्ति अस्मिन् कर्मवशवर्तिनः / | नन्दी , प्राणिन इति भवः, स च नारकादिलक्षणः, स एव प्रत्ययः- कारणं यासांताः भवप्रत्ययाः, पक्षिणां गगनगमनवत्, ताश्च नियुक्ति: 26 नारकामराणामेव, तथा गुणपरिणामप्रत्ययाः क्षयोपशमनिर्वृत्ताः क्षायोपशमिकाः काश्चन, ताश्च तिर्यङ्नराणामिति / आह अवधिर सङ्ख्यभेदो क्षायोपशमिके भावेऽवधिज्ञानं प्रतिपादितम्, नारकादिभवश्च औदयिकः, स कथं तासांप्रत्ययो भवतीति, अत्रोच्यते, ता. अपि क्षयोपशमनिबन्धना एव, किंतु असावेव क्षयोपशमः तस्मिन्नारकामरभवेसति अवश्यं भवतीतिकृत्वा भवप्रत्ययास्ता प्रत्ययौ। ततश्चतुर्दश इतिगाथार्थः ॥२५॥साम्प्रतं सामान्यरूपतया उद्दिष्टानां अवधिप्रकृतीनांवाचः क्रमवर्त्तित्वाद् आयुषश्चाल्पत्वात् यथावद्भेदेन भेदा: ऋद्धिप्रतिपादनसामर्थ्यमात्मनोऽपश्यन्नाह सूत्रकारः प्राप्ताश्च। नि०- कत्तो मे वण्णे, सत्ती ओहिस्स सव्वपयडीओ?। चउदसविहनिक्खेवं, इड्डीपत्ते यवोच्छामि // 26 // कुतो? मे मम, वर्णयितुं शक्तिः अवधेः सर्वप्रकृतीः?, आयुषः परिमितत्वावाचः क्रमवृत्तित्वाच्च, तथापि विनेयगणानुग्रहार्थम्, 0. वर्तिनोऽनन्त०५10 प्रदेशिकाद् 1-3-510 उत्कर्षतः प्रतिद्रव्यमसंख्येयान्, न तु कदाचनाप्यनन्तान् 'नाणन्ते पेच्छइ कयाई' त्ति भाष्योक्तेः, जघन्य-8 तस्तु संख्येयानसंख्येयांश्च प्रतिद्रव्यं जानाति, परं वक्ष्यमाणत्वादिना नोक्तम् / 0 कायांस्तत्प०। ७०भेदे च 1-2-4-510 भवप्रत्ययावधिप्रकृतयः। 0 कारणकारणे कारणत्वोपचारात्, प्रयोजनं तु तदुदयनान्तरीयकताज्ञापनम्, अन्यथासिद्धत्वं त्ववश्यक्लृप्तत्वान्नात्र। 0 संखाईआओ खलु ओहीनाणस्स सब्वपयडीओ'त्ति पूर्वार्धेन। 8
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy