________________ पीठिका नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 46 // साम्प्रतं विषयद्वारेण निरूप्यते, तच्चतुर्विधं- द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतः श्रुतज्ञानी सर्वद्रव्याणि जानीतेन तु पश्यति, एवं क्षेत्रादिष्वपि द्रष्टव्यम् / इदं पुनः श्रुतज्ञानं सर्वातिशयरत्नसमुद्रकल्पम्, तथा प्रायो गुर्वायत्तत्वात् पराधीनं यतः अतः विनेयानुग्रहार्थं यो यथा चास्य लाभः तं तथा दर्शयन्नाह नि०-आगमसत्थग्गहणं, जंबुद्धिगुणेहि अट्ठहिं दिटुं। बिति सुयनाणलं , तंपुव्वविसारया धीरा // 21 // आगमनं आगमः, आङः अभिविधिमर्यादार्थत्वाद् अभिविधिना मर्यादया वागमः- परिच्छेद आगमः,सच केवलमत्यवधिमनःपर्यायलक्षणोऽपि भवति अतस्तद्व्यवच्छित्त्यर्थमाह- शिष्यतेऽनेनेति शास्त्रं- श्रुतम्, आगमग्रहणं तु षष्टितन्त्रादिकुशास्त्रव्यवच्छेदार्थम्, तेषामनागमत्वात्, सम्यक्परिच्छेदात्मकत्वाभावादित्यर्थः,शास्त्रतया च रूढत्वात्, ततश्च आगमश्चासौ शास्त्रंच आगमशास्त्रं तस्य ग्रहणमिति समासः, गृहीतिर्ग्रहणम्, यद्बुद्धिगुणैः वक्ष्यमाणलक्षणैः करणभूतैः अष्टभिः, दृष्टं ब्रूवते, श्रुतज्ञानस्य लाभः श्रुतज्ञानलाभस्तम्, तदेव ग्रहणम्, ब्रुवते, के?, पूर्वेषु विशारदाः पूर्वविशारदाः, विशारदा विपश्चितः धीरा व्रतानुपालने स्थिरा इत्ययं गाथार्थः // 21 // बुद्धिगुणैरष्टभिरित्युक्तम्, ते चामी नि०- सुस्सूसइ पडिपुच्छइ, सुणेइ गिण्हइ य ईहए वावि / तत्तो अपोहए या, धारेइ करेइ वा सम्मं // 22 // विनययुक्तो गुरुमुखात् श्रोतुमिच्छति शुश्रूषति, पुनः पृच्छति प्रतिपृच्छति तच्छुतमशङ्कितं करोतीति भावार्थः, पुनः कथित तच्छृणोति, श्रुत्वा गृह्णाति, गृहीत्वा चेहते पर्यालोचयति किमिदमित्थं उत अन्यथेति, चशब्दः समुच्चयार्थः, अपिशब्दात् पर्यालोचयन् किञ्चित् स्वबुद्ध्याऽपि उत्प्रेक्षते, ततः तदनन्तरं अपोहते च एवमेतत् यदादिष्टमाचार्येणेति, पुनस्तमर्थमागृहीतं 0 प्ररूप्यते 2-3 / 0 वास्य 2 / 0 हि विदिढे 1-2-4-510 वीरा 3 / 7 आवि 3 / वा 1-2-4-5 / 0 शुश्रूषते 5 / 7 पुनः पुनः 3-4 / ०.१ज्ञानपञ्चकरूपा नन्दी, नियुक्ति: 21 आगमकारणशुश्रूषादिबुद्धिगुणाष्टकम् / नियुक्ति: 22 आगमकारणशुश्रूषादिबुद्धि| गुणाष्टकम्। // 46 //