SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ / / 44 // पीठिका ०.१ज्ञानपशकरूपा नन्दी , नियुक्ति: 20 श्रुतभेदकथनं उसिताद्यनक्षरभूतम्। अक्षरात्मकं श्रुतं अक्षरश्रुतम्, द्रव्याक्षराण्यधिकृत्य, अथवा अक्षरंच तत् श्रुतं च अक्षरश्रुतम्, भावाक्षरमङ्गीकृत्य // 19 // उक्तमक्षरश्रुतम्, इदानीमनक्षरश्रुतस्वरूपाभिधित्सयाह नि०- ऊससिनीससिअं, निच्छूढं खासिअंच छीअंच / णीसिंघियमणुसारं, अणक्खरं छेलियाई // 20 // 8 उच्छ्रसनं उच्छ्रसितम्, भावे निष्ठाप्रत्ययः, तथा निःश्वसनं निःश्वसितम्, निष्ठीवनं निष्ठ्यूतम्, काशनं काशितम्, चशब्दः समुच्चयार्थः, क्षवणं क्षुतम्, चशब्दः समुच्चयार्थ एव, अस्य च व्यवहितः सम्बन्धः, कथं! सेण्टितंचानक्षरश्रुतमिति वक्ष्यामः, निःसिवनं निःसिङ्घितम्, अनुस्वारवदनुस्वारम्, अनक्षरमपि यदनुस्वारवदुच्चार्यते हुङ्कारकरणादिवत् तत् अनक्षरमिति एतदुच्छ्रसितादि अनक्षरश्रुतमिति, सेण्टनं सेण्टितं तत्सेण्टितं च अनक्षरश्रुतमिति / इह चोच्छसितादि द्रव्यश्रुतमात्रम्, ध्वनिमात्रत्वात्, अथवा श्रुतविज्ञानोपयुक्तस्य जन्तोः सर्व एव व्यापारः श्रुतम्, तस्य तद्भावेन परिणतत्वात् / आह- यद्येवं किमित्युपयुक्तस्य चेष्टापि श्रुतंनोच्यते,? येनोच्छ्रसिताद्यवोच्यते इति, अत्रोच्यते, रूंढ्या, अथवा श्रूयत इति श्रुतम्, अन्वर्थसंज्ञामधिकृत्य उच्छ्रसिताद्येव श्रुतमुच्यते, न चेष्टा, तँदभावादिति, अनुस्वारादयस्तु अर्थगमकत्वादेव श्रुतमिति गाथार्थः // 20 // उक्तमनक्षरश्रुतद्वारम्, इदानीं संज्ञिद्वारं तत्र संज्ञीति कः शब्दार्थः?, संज्ञानं संज्ञा, संज्ञाऽस्यास्तीति संज्ञी, स च त्रिविधः Oरूढ्यक्षराणि संज्ञाव्यञ्जनोभयरूपाण्याश्रित्य / न क्षरतीत्यादिव्युत्पत्त्या चेतनामाश्रित्य / ०णीसंघिय०10 आदिना सीत्कारपूत्काराद्याः। 72-3-4 निःसङ्घनं 2-4 10 अक्षरमपि श्रुतज्ञानो010 घटपटादिवद्वाच्यवाचकभावतया न परिणामीति मात्रग्रहणम् / सूचकत्वात् / 7 करचरणादिक्रियाया अपि विवक्षितार्थसूचकत्वादाह श्रुतोपयुक्तस्य।®श्रवणव्यवहाररूपया शास्त्रज्ञलोकप्रसिद्धया। ®रूढौ विशेषाग्रहे आह-अथवेत्यादि।®निरर्थकार्थशून्यनिरासेन 8 10 श्रवणलक्षणान्वर्थस्याभावात् / आदिना सेण्टितसीत्काराद्याः, उच्छृसितादीनामव्यक्तत्वाद् अनक्षरत्वमनुस्वारादीनां वर्णावयवत्वाद्विशेषदर्शनाय चेदम् / // 44 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy