________________ पीठिका ०.१ज्ञानपञ्चकरूपा श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 43 // नन्दी, नियुक्ति: 19 श्रुतभेदकथनं उसिताद्यनक्षरभूतम्। असंज्ञिमिथ्याश्रुते, उभयश्रुते दर्शनविशेषपरिग्रहात् अक्षरानक्षरश्रुते इति, वक्ष्ये अभिधास्ये इति गाथार्थः॥१८॥ साम्प्रतं चतुर्दशविधश्रुतनिक्षेपस्वरूपोपदर्शनायाह नि०- अक्खर सण्णी सम्म, साईयं खलु सपज्जवसिअंच / गमियं अंगपविट्ठ, सत्तवि एए सपडिवक्खा // 19 // तत्र अक्षरश्रुतद्वारं इह सूचनात्सूत्रं इतिकृत्वा सर्वद्वारेषु श्रुतशब्दो द्रष्टव्य इति / तत्र अक्षरमिति, किमुक्तं भवति?- 'क्षर संचलने' न क्षरतीत्यक्षरम्, तच्च ज्ञानचेतनेत्यर्थः, न यस्मादिदमनुपयोगेऽपि प्रच्यवत इतिभावार्थः, इत्थंभूतभावाक्षरकारणत्वाद् अकारादिकमप्यक्षरमभिधीयते, अथवा अर्थान् क्षरति न च क्षीयते इत्यक्षरम्, तच्च समासतस्त्रिविधम्, तद्यथासंज्ञाक्षरं व्यञ्जनाक्षरंलब्ध्यक्षरं चेति,संज्ञाक्षरंतत्र अक्षराकारविशेषः, यथा घटिकासंस्थानोधकारः कुरुण्टिकासंस्थानश्चकार इत्यादि, तच्च ब्राह्मयादिलिपीविधानादनेकविधम् / तथा व्यञ्जनाक्षरम्, व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनम्, व्यञ्जनं च तदक्षरंचेति व्यञ्जनाक्षरम्, तच्चेह सर्वमेव भाष्यमाणं अकारादिहकारान्तम्, अर्थाभिव्यञ्जकत्वाच्छब्दस्य, तथा योऽक्षरोपलम्भः तत् लब्ध्यक्षरम्, तच्च ज्ञानं इन्द्रियमनोनिमित्तं श्रुतग्रन्थानुसारि तावरणक्षयोपशमोवा। अत्र च संज्ञाक्षरं व्यञ्जनाक्षर च द्रव्याक्षरमुक्तम्, श्रुतज्ञानाख्यभावाक्षरकारणत्वात्, लब्ध्यक्षरंतु भावाक्षरम्, विज्ञानात्मकत्वादिति / तत्र अक्षरश्रुतमिति Oएकस्य परस्परविरुद्धधर्माश्रयत्वाभावादाह- दर्शनेत्यादि, दर्शनशब्दश्चात्र श्रद्धानार्थः। ॐ चतुर्दशनिक्षेप०२10 नामस्थापनाद्रव्याणामनादरः अप्रधानत्वादिनाऽने वक्ष्यमाणत्वाद्वा, श्रुतस्कन्धे भावश्रुते ये भेदाश्चतुर्दश तदपेक्षया चात्र चतुर्दशविधनिक्षेपेति, अधिकारावतरणिकषेति च स्वरूपेति, अक्षरसंज्ञ्यादिद्वाराणां च नात एव पृथक् सूत्राणि। प्रच्यवतीति० 2-4 / 0 इत्थंभूतो० 3 / 0 भावार्थ०२-४। (c) कुरण्टिसं० 1-2-4 कुरण्टिकासं० 2 / (c) भाष्यमाणशब्दस्यैव व्यञ्जनाक्षरत्वादाह- अर्थाभीत्यादि, प्रत्येकं विभिन्नाक्षराणामर्थाभिव्यञ्जकत्वाभावात्। 0 वरणकर्म० 1-2-3-4 /