________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 37 // पूर्वप्रतिपन्ना एव, न तु प्रतिपद्यमानकाः, केवलदर्शनिनस्तूभयविकला इति 10 / संयत इति द्वारं संयतः पूर्वप्रतिपन्नो न प्रतिपद्यमान इति 11 / उपयोगद्वारं स च द्विधा- साकारोऽनाकारश्च, तत्र साकारोपयोगिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्या इति, अनाकारोपयोगिनस्तु पूर्वप्रतिपन्ना एव न प्रतिपद्यमानकाः 12 / अधुना आहारकद्वारं आहारकाः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विकल्पनीया विवक्षितकाल इति, अनाहारकास्तु अपान्तरालगतौ पूर्वप्रतिपन्नाः संभवन्ति, न तु प्रतिपद्यमानका इति 13 / तथा भाषक इति द्वारं तत्र भाषालब्धिसंपन्ना भाषकाः, ते भाषमाणा अभाषमाणा वा पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भजनीया इति, तल्लब्धिशून्याश्चोभयविकला इति 14 / परीत्त इति द्वारंतत्र परीत्ताः प्रत्येकशरीरिणः, ते पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्या इति, साधारणास्तु उभयविकला इति 15 / पर्याप्तक इति द्वारं तत्र षड्भिराहारादिपर्याप्तिभिर्ये पर्याप्तास्ते पर्याप्तकाः, ते पूर्वप्रतिपन्ना नियमतो विद्यन्ते, विवक्षितकाले प्रतिपद्यमानास्तु भजनीया इति, अपर्याप्तकास्तु Bषट्पर्याप्त्यपेक्षया पूर्वप्रतिपन्नाः संभवन्ति, न त्वितरे 16 / सूक्ष्म इति द्वारंतत्र सूक्ष्माः खलुभयविकलाः, बादरास्तुपूर्वप्रतिपन्ना नियमतः सन्ति, इतरे तु विवक्षितकाले भाज्या इति 17 / तथा संज्ञिद्वारं तत्रेह दीर्घकालिक्युपदेशेन संज्ञिनः प्रतिगृह्यन्ते, तेच बादरवद्वक्तव्याः, असंज्ञिनस्तु पूर्वप्रतिपन्नाः संभवन्ति, न त्वितर इति 18 भव इति द्वारं तत्र भवसिद्धिकाःसंज्ञिवद्वक्तव्याः, 0 इष्टावधारणार्थत्वादेवकारस्य प्रतिपद्यमानानां निषेधायैषः, नतु मिथ्यात्ववतां अवधिदर्शनव्यवच्छेदाय, यद्वा तद्वत्सु तद्वतामवश्यंभावात् / साकारोपयोगोपयुक्तानामेव मतिज्ञानस्योत्पत्तेः। 0 नटुंमि उ छाउमथिए नाणे' इति सिद्धान्तमङ्गीकृत्य। 0 तेषां 2 / 0 संज्ञिपश्चेन्द्रियाणां षण्णां पर्याप्तीनां संभवात्, तत्र चावश्यभावात्तस्य। 0 प्रतिपद्यमानकाः। 0 भव्या इत्यर्थः / पीठिका ०.१ज्ञानपञ्चकरूपा नन्दी , नियुक्तिः 13-15 सत्पदप्ररूपणादीनि (9) गत्यादीषु (20) मतिज्ञानस्योपसंहारः, श्रुतस्य प्रतिज्ञा। // 37 //