SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 35 // (20) प्रथमसमय एव, शेषसमयेषु तु पूर्वप्रतिपन्ना एव भवन्ति 1 / तथा इन्द्रियद्वारे इन्द्रियाण्यङ्गीकृत्य मृग्यते, तत्र पञ्चेन्द्रियाः पीठिका पूर्वप्रतिपन्नाः नियमतः सन्ति, प्रतिपद्यमानास्तु विकल्पनीया इति, द्वित्रिचतुरिन्द्रियास्तु पूर्वप्रतिपन्नाः संभवन्ति, न तु ०.१ज्ञान पञ्चकरूपा प्रतिपद्यमानाः, एकेन्द्रियास्तु उभयविकलाः। तथा काय इति कायमङ्गीकृत्य विचार्यते, तत्र त्रसकाये पूर्वप्रतिपन्ना नियमतो / नन्दी, विद्यन्ते, इतरे तु भाज्याः शेषकायेषु च पृथिव्यादिषु उभयाभाव इति 3 / तथा योग इति त्रिषु योगेषु समुदितेषु पञ्चेन्द्रिय- नियुक्तिः 13-15 वद्वक्तव्यम्, मनोरहितवाग्योगेषु विकलेन्द्रियवत्, केवलकाययोगे तूभयाभाव इति / तथा वेद इति त्रिष्वपि वेदेषु विवक्षित सत्पदप्ररूपकाले पूर्वप्रतिपन्ना अवश्यमेव सन्ति, इतरे तु भाज्या इति 5 / तथा कषाय इति द्वारं कषायाः क्रोधमानमायालोभाख्याः णादीनि (9) प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदभिन्ना इति, तत्राद्येषु अनन्तानुबन्धेषु क्रोधादिषूभयाभाव इति, गत्यादीषु शेषेषु तु पञ्चेन्द्रियवद्द्योज्यम् 6 / तथा लेश्यासु चिन्त्यते, तत्र श्लेषयन्त्यात्मानमष्टविधेन कर्मणा इति लेश्याः- कायाद्यन्यतम- मतिज्ञानयोगवतः कृष्णादिद्रव्यसम्बन्धादात्मनः परिणामा इत्यर्थः, तत्रोपरितनीषु तिसृषु लेश्यासुपञ्चेन्द्रियवद्योजनीयमिति, आद्यासु स्योपसंहारः, श्रुतस्य तु पूर्वप्रतिपन्नाः संभवन्ति, नत्वितर इति 7 / तथा सम्यक्त्वद्वारसम्यग्दृष्टिः किं पूर्वप्रतिपन्नः किं वा प्रतिपद्यमानक इति, अत्र प्रतिज्ञा। व्यवहारनिश्चयाभ्यां विचार इति, तत्र व्यवहारनय आह- सम्यग्दृष्टिः पूर्वप्रतिपन्नो न प्रतिपद्यमानकः आभिनिबोधिकज्ञानलाभस्य, सम्यग्दर्शनमतिश्रुतानांयुगपल्लाभात्, आभिनिबोधिकप्रतिपत्त्यनवस्थाप्रसङ्गाच्च। निश्चयनयस्त्वाह-सम्यग्दृष्टिः A 0 स्थित्यपेक्षया। लब्धिपर्याप्तानाम्, करणापर्याप्तावस्थायां भवान्तरासादितसासादनसम्यक्त्वसद्भावसंभवात् / 0 सहचरितेषु, प्रत्येकस्याग्रे वक्ष्यमाणत्वात्। 80विकलेषु सासादनाभ्युपगमेऽपि एकेन्द्रियेष्वनभ्युपगमात्तस्य। नेदं 5-6 / 0बन्धिषु 410 सास्वादनकालस्याल्पत्वादविवक्षेति मलधारिपादाः। ॐ शेषाणां पूर्वप्रतिपन्नत्वात् प्रतिपद्यमानत्वे भजना, पूर्वमवाप्याधुना तदुपयोगे तल्लब्धौ वा वर्तमाना अत्र प्रतिपन्नत्वेन ग्राह्या नतु प्रतिपद्य य उज्झितवन्तस्ते। 0 नेदं 1-3 /
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy