________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 32 // त्रिभिः समयैर्लोकापूरणमापद्यते, न चतुःसमयसंभवोऽस्ति, कथं? - प्रथमसमयानन्तरमेव शेषदिक्षु पराघातद्रव्यसद्भावात् / पीठिका द्वितीयसमय एव मन्थानसिद्धेः, तृतीये च तदन्तरालापूरणात् इति। आह- जैनसमुद्धातवच्चतुभिरेवापूरणं भविष्यतीति को ०.१ज्ञान पञ्चकरूपा दोष इति, अत्रोच्यते, न, सिद्धान्तापरिज्ञानात्, इह जैनसमुद्धाते स्वरूपेणापूरणात्, न तत्र पराघातद्रव्यसंभवोऽस्ति, नन्दी , सकर्मकजीवव्यापारत्वात्तस्य, ततश्च कपाटनिर्वृत्तिरेव तत्र द्वितीयसमय इति,शब्दद्रव्याणांत्वनुश्रेणिगमनात्पराघातद्रव्यान्तर-8 नियुक्ति: 12 वासकस्वभावत्वाच्च द्वितीयसमय एव मन्थानापत्तिरिति, अचित्तमहास्कन्धोऽपि वैश्रसिकत्वात् पराघाताभावाच्च चतुभिरेव मत्येकार्थि कानि (9) / पूरयति, न चैवं शब्द इति, सर्वत्रानुश्रेणिगमनात्, इत्यलमतिविस्तरेण, गमनिकामात्रमेवैतत् प्रस्तुतमिति / यदुक्तं-'लोकस्य च कतिभागे कतिभागो भवति भाषायाः' इति, तत्रेदमुच्यते- लोकस्य च क्षेत्रगणितमपेक्ष्य चरमान्ते असंख्येयभागे चरमान्तः असंख्येयभागो भवति भाषायाः समग्रलोकव्यापिन्याः इति गाथार्थः // 11 // तत्त्वभेदपर्यायैर्व्याख्या इति न्यायात् तत्त्वतो भेदतश्च मतिज्ञानस्वरूपमभिधाय इदानीं नानादेशजविनेयगणसुखप्रतिपत्तये तत्पर्यायशब्दान् अभिधित्सुराह. नि०-ईहा अपोह वीमंसा, मग्गणा यगवेसणा।सण्णा सई मई पण्णा, सव्वं आभिणिबोहियं // 12 // . 'ईह चेष्टायां' ईहनमीहा सतामर्थानां अन्वयिनांव्यतिरेकिणांच पर्यालोचना इतियावत्, अपोहनं अपोहः निश्चय इत्यर्थः, 8 // 32 // 0वास्यद्रव्यसंभवः। 0 समुद्धातस्य / 0 स्वभावाच्च 4 / 0 वैश्रसिकत्वाभावात्तस्य पराघात (वास्य) द्रव्याभावरहितत्वाच्च। 9 ऊर्ध्वाधोदण्डभवनानन्तरं चतसृषु दिक्षु अनुश्रेणिगमनात् मन्थानसंपत्तिरित्यर्थः। 9 क्षेत्रस्य आकाशस्य गणितं लोकप्रदेशद्वारा गणनमसंख्येयरूपम्। 0 अत्थाणं ओग्गहणं (गाथा 3) उग्गह ईहावाओ य (गाथा 2) भेददर्शनद्वारा भेदलक्षणाख्यानद्वारा च /