________________ पञ्चकरूपा श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 31 // नन्दी, भाषाया: समया:। स खलु आदाननिसर्गप्रयत्नाभ्यां भित्त्वैव विसृजति, तानि च सूक्ष्मत्वाद्बहुत्वाच्च अनन्तगुणवृद्ध्या वर्धमानानि षट्सु दिक्षु पीठिका लोकान्तमाप्नुवन्ति, अन्यानि च तत्पराघातवासितानि वासनाविशेषात् समस्तं लोकमापूरयन्ति, इह च चतुःसमयग्रहणात् / ०.१ज्ञानत्रिपञ्चसमयग्रहणमपि प्रत्येतव्यम्, तुलादिमध्यग्रहणवत्, तत्र कथं पुनस्त्रिभिः समयैः लोको भाषया निरन्तरमेव भवति स्पृष्ट इति?, उच्यते, लोकमध्यस्थवक्तृपुरुषनिसृष्टानि, यतस्तानि प्रथमसमय एव षट्सु दिक्षुलोकान्तमनुधावन्ति, जीवसूक्ष्म नियुक्तिः 10-11 पुद्गलयोः अनुश्रेणि गतिः (तत्त्वार्थ० अ० 2 सूत्र 27) इति वचनात्, द्वितीयसमये तु त एव हि षट् दण्डाश्चतुर्दिशमेकैकशो विवर्धमानाः षट् मन्थानो भवन्ति, तृतीयसमये तु पृथक् पृथक् तदन्तरालपूरणात् पूर्णो भवति लोक इति, एवं त्रिभिः लोकपूर्तिसमयैर्भाषया लोकः स्पृष्टो भवति, यदा तु लोकान्तस्थितो वा भाषको वक्ति, चतसृणां दिशामन्यतमस्यां दिशि नाड्या बहिरवस्थितस्तदा चतुर्भिः समयैरापूर्यत इति, कथं?, एकसमयेन अन्तर्नाडीमनुप्रविशति, त्रयोऽन्ये पूर्ववष्टिव्याः, यदा तु विदिग्व्यवस्थितो वक्ति, तदा पुद्गलानामनुश्रेणिगमनात् समयद्वयेनान्तर्नाडीमनुप्रविशति, शेषसमयत्रयं पूर्ववष्टिव्यमित्येवं. पञ्चभिः समयैरापूर्यत इति / अन्ये तु जैनसमुद्धातगत्या लोकापूरणमिच्छन्ति, तेषांचाद्यसमये भाषायाः खलु ऊर्ध्वाधोगमनात् शेषदिक्षु न मिश्रशब्दश्रवणसंभवः, उक्तं चाविशेषण- भासासमढ़ीओ, सदं जं सुणडू मीसयं सुणइ (6) त्ति। अथ मतंव्याख्यानतोऽर्थप्रतिपत्तिः इति न्यायाद्दण्ड एव मिश्रश्रवणं भविष्यति, न शेषदिक्ष्विति, ततश्चादोष इति, अत्रोच्यते, एवमपि Oस्यां वा 1-2-3-4 / 0 ज्ञायतेऽनेन त्रसाणां गतिर्व्यवस्थितिश्च नाड्या बहिः, जन्माद्यभावश्च नरलोकरीत्या नराणामिव न तत्रेति चानुमीयते। 08 तथास्वाभाव्यादेव अनुकूलसामग्र्यभावाद्वा बहिर्नाड्या न श्रेण्यारम्भ इति। 0 व्यावहारिकी विदिगत्र, अन्यथा व्यवस्थानाभावात्। 0 केवलिसमुद्धातमर्यादया। नेदं श्रवणा सं०। 0 ना। (c) ऊर्ध्वाधोदण्डभागस्थितश्रोतुः श्रुतेर्मिश्रशब्दस्य, चतुरङ्गलादिमानो दण्डो वक्त्रानुसारेण / // 31 //