SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 28 // नन्दी , नि० तिविहंमि सरीरंमि, जीवपएसा हवन्ति जीवस्स / जेहि उगिण्हइ गहणं, तो भासइ भासओ भासं॥८॥ पीठिका 'त्रिविधे' त्रिप्रकारे, शीर्यत इति शरीरं तस्मिन्, औदारिकादीनामन्यतम इत्यर्थः, जीवतीति जीवः तस्य प्रदेशाः जीवप्रदेशाः, ०.१ज्ञान पशकरूपा भवन्ति, एतावत्युच्यमाने 'भिक्षोः पात्रं' इत्यादौ षष्ठ्या भेदेऽपि दर्शनात् मा भूद् भिन्नप्रदेशतयाऽप्रदेशात्मसंप्रत्यय इत्यत | आह-जीवस्य आत्मभूता भवन्ति, ततश्चानेन निष्प्रदेशजीववादिनिराकरणमाह, सति निष्प्रदेशत्वे करचरणोरुग्रीवाद्यवयव- नियुक्तिः८ त्रिविधसंसर्गाभावः, तदेकत्वापत्तेः, कथं?- करादिसंयुक्तजीवप्रदेशस्य उत्तमाङ्गादिसम्बद्धात्मप्रदेशेभ्यो भेदाभेदविकल्पानुपपत्ते शरीरे भाषा, रिति। यैः किं करोतीत्याह- यैस्तु गृह्णाति तुशब्दो विशेषणार्थः, किं विशिनष्टि?- न सर्वदैव गृह्णाति, किन्तु तत्परिणाम चतुर्विधासा। सति, किं?- गृह्यत इति ग्रहणम्, ग्रहणमिति कृत्यल्युटो बहुलं (पा० 3-3-113) इतिवचनात्कर्मकारकम्, शब्दद्रव्यनिवहमित्यर्थः, ततो गृहीत्वा भाषते वक्ति, भाषत इति भाषकः क्रियाऽऽविष्ट इत्यर्थः, अनेन निष्क्रियात्मवादव्यवच्छेदमाह, सति तस्मिन्निष्क्रियत्वात् अप्रच्युतानुत्पन्नस्थिरैकरूपत्वाद्भाषणाभावप्रसङ्गः, कां?- भाष्यत इति भाषा तां भाषाम् / आहततो भाषते भाषक इत्यनेनैव गतार्थत्वाद्भाषाग्रहणमतिरिच्यते इति, न, अभिप्रायापरिज्ञानात्, इह भाष्यमाणैव भाषोच्यते, न पूर्वं नापि पश्चाद्, इत्यस्यार्थस्य ख्यापनाय भाषाग्रहणमदुष्टमेवेति गाथार्थः // 8 // 0प्रदर्शनात् / (r) अभेदषष्ठ्या तत्रस्थाः प्रदेशा जीवाभिन्नाः, एतदेव च जीवस्येत्युच्चारणे फलम्, अन्यथा 'जीवप्रदेशा' इत्यनेन सम्बद्धार्थावगमात् / 08 नैयायिकवैशेषिकादयः, तन्मते हि नित्यं निरवयवमेव, सावयवत्वे हि कार्यत्वापत्त्या अनित्यत्वापत्तिः, घटादीनामिव / 0 करचरणादयो हिसावयवा इत्युभयसंमतम्,8 // 28 // | आत्मा च तैः प्रत्यवयवमेव संयुज्यते, संयोगश्च स्यात्तदा यदि स्यादात्मा सावयवः, प्रतिप्रदेशं च संयोगवान्, ततो निष्प्रदेशे करचरणाद्यवयवसंयोगो न स्यादात्मनः,8 | संसर्गे हि निष्प्रदेशस्यात्मनः करादिभिः करादीनामपि निष्प्रदेशकात्मनः प्रत्यवयवेन संसर्गात्स्वरूपापत्त्या निष्प्रदेशत्वेनैकत्वापत्तिः। भेदे सावयवत्वात्प्रतिज्ञातहानिः, अभेदे भिन्नावयवसंयोगानुपपत्तेस्तदेकतरेण सात्मकता न सर्वैरित्यनिष्टेः। 0 जीवप्रदेशैः। O भाषणपरिणामे। 7 निष्क्रिय आत्मनि / 8
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy