SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ पीठिका ०.१ज्ञानपञ्चकरूपा | नन्दी, नियुक्तिः भाषाद्रव्य| ग्रहणनिसर्गी। // 27 // संतरं निसरति, नो निरंतरं, एगेणं समएणं गिण्हति, एगेणं णिसरती त्यादि, तत्कथं नीयते?', उच्यते, इह ग्रहणापेक्षया निसर्गः सान्तरोऽभिहितः, एतदुक्तं भवति- यथा आदिसमयादारभ्य प्रतिसमयं ग्रहणम्, नैवं निसर्ग इति, यस्मादाद्यसमये नास्तीति, ग्रहणमपि निसर्गापेक्षया सान्तरमापद्यत इति चेत्, न, तस्य स्वतन्त्रत्वात्, निसर्गस्य च ग्रहण-परतन्त्रत्वात्, यतो नागृहीतं निसृज्यत इति, अत: पूर्वपूर्वग्रहणसमयापेक्षया सान्तरव्यपदेश इति / तथा एकेन समयेन गृह्णाति एकेन निसृजति, किमुक्तं भवति?-ग्रहणसमयानन्तरेण सर्वाण्येव तत्समयगृहीतानि निसृजतीति / अथवा एकसमयेन गृह्णात्येव, आद्येन, न निसृजति, तथा एकेन निसृजत्येव, चरमेण, न गृह्णाति, अपान्तरालसमयेषु तु ग्रहणनिसर्गावर्थगम्यौ इत्यतोऽविरोध इति / आहग्रहणनिसर्गप्रयत्नौ आत्मनः परस्परविरोधिनी एकस्मिन्समये कथं स्यातामिति, अत्रोच्यते, नायं दोषः, एकसमये कर्मादाननिसर्गक्रियावत् तथोत्पादव्ययक्रियावत् तथाऽङ्गल्याकाशदेशसंयोगविभागक्रियावच्च क्रियाद्वयस्वभावोपपत्तेरिति गाथार्थः॥७॥ यदुक्तं- गृह्णाति कायिकेन इत्यादि, तत्र कायिको योगः पञ्चप्रकारः, औदारिकवैक्रियाहारकतैजसकार्मणभेदभिन्नत्वात्तस्य, ततश्च किं पञ्चप्रकारेणापि कायिकेन गृह्णाति आहोस्विदन्यथा इत्याशङ्कासंभवे सति तदपनोदायेदमाह व्याख्यायत इत्यर्थः, भवढ्याख्यानेन विरुद्धतमत्वात्। 0 पूर्वमगृहीतत्वात् गृहीतानां च द्वितीयसमये निसर्गात्। (r) गृहीतानां विना निसर्ग ग्रहणाभावात् सान्तरता यथा तथा निसर्जने एव ग्रहणाद्गृहणस्यापि सान्तरतेत्यर्थः / 0 ग्रहणस्य- पूर्वसमयेऽनिसर्गेऽपि ग्रहणादित्यर्थः, निसर्जनं तु गृहीतानामेवेति तस्य परतन्त्रत्वम्। निसर्गात्। समयेन / 0 प्रागिति। अर्थापत्तितो ज्ञेयौ, अन्यथाऽऽद्यान्त्यसमयग्रहणनिसर्गावधारणानुपपत्तेः। ॐ मनोवाक्काययोगानामात्मव्यापाररूपत्वात्, आत्मनश्चैकत्वात्, एकसमये परस्परविरुद्धक्रियाकरणानुपपत्तिरित्यर्थः। ®यावदन्तिम गुणस्थानं भाव्येव बन्धः कर्मणाम्, तद्विपाकवेदतश्च निसर्गः तेषामनुसमयम्, आगमोपपन्ने च तस्मिन्नविरोधो यथा तथाऽत्रापीत्यर्थः,। // 27 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy